Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 422
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रष्टुमेनां गुणभृतां, मोहाद्याः शक्नुवन्ति न । द्विपमुक्तागणाकीर्णा, मृगाः सिंहगुहामिव ।। १२९६ ॥ जीववीर्यमिदं स्पष्टं, विष्टरं कान्तिभासुरम् । राजा तद्धाम राज्यं, च, प्रभावादस्य जृम्भते ॥ १२९७ ॥ बिभर्त्यस्य महिम्नैव, विवेकादिर्गरिष्ठताम् । भास्वन्मणिसमूहेन, रोहणाद्रिरिव स्फुटम् ।। १२९८ ॥ विनेदं निखिलं राज्यं, मोहाद्यैः प्रविलुप्यते । वीर्यं विनाऽङ्गिनामङ्ग, कुपितैरिव धातुभिः ॥ १२९९ ॥ दध्यौ प्रकर्षस्तच्छ्रुत्वा, तद्धि सात्त्विकमानसम्। अकामनिर्जरापेक्षं, वीर्यं मिथ्यादृशां हि यत् ॥ १३०० ॥ लोकास्ते चात्र वास्तव्या, येऽनेन धुतकल्मषाः । एतद्वासप्रभावेण, प्रयान्ति विबुधालयम् ॥ १३०१॥ धनपुत्रकलवादेः, शरीरात् कर्मणस्तथा । भिन्नोऽहं परिभिद्यन्ते, मत्तो मोहादिशत्रवः ॥ १३०२ ॥ अज्ञात्वाऽप्यागमं जैनं, कर्मनिर्जरणेन या । भवत्येवंविधा बुद्धिः, स विवेकोऽभिगीयते (युग्मम्) ॥ १३०३ ॥ कषायविषयत्यागो, यो भवेद् दोषलाघवात् । अप्रमत्तत्वशिखरं, विवेकानेस्तदिष्यते ॥ १३०४॥ असद्ग्रहनिवृत्त्याऽत्र, दृष्टिर्मार्गानुसारिणी । भवत्येकपदी मुक्तेः, प्रापिकाऽन्यमतेष्वपि ।। १३०५ ॥ महाराजपथो मुक्तेश्चतुर्वर्णविराजितम् । द्वादशाङ्गं पुनर्जेनं, वचनं पुरमुच्यते ॥ १३०६॥ तदादेशकृतस्तत्र, वास्तव्याः कीर्तिता जनाः । उक्तोऽत्र मण्डपो वेदी, विष्टरं च स्फुटाक्षरैः ॥ १३०७॥ ૪૧૩ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442