Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 420
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२४८॥ ॥ १२४९ ॥ ॥ १२५०॥ ॥ १२५१ ॥ ॥ १२५२ ॥ ॥ १२५३ ॥ अहो रम्यं पुरं जैनमिदं यत्रेदृशः प्रभुः । ईदृक्षो मण्डपो लोकाश्चेदृशा दृष्टिशर्मदाः यत्रेदृशं विवेकाद्रौ, पुरं स भवचक्रके। स्थितः कथं दोषपूर्णे, विमर्शोऽप्यब्रवीत् ततः चित्तवृत्तिमहाटव्यामस्त्यसौ परमार्थतः । उपचारेण विद्वद्भिर्भवचक्रे निगद्यते (युग्मम्) अस्ति येनात्र विस्तीर्णं, पुरं सात्त्विकमानसम् । तत्र स्थितो विवेकाद्रिरुपचारस्ततः कृतः प्रकर्षः प्राह यद्येवं, तदाधारोऽस्य यद् गिरेः । पुरं सात्त्विकचित्ताख्यं, तद्गता ये बहिर्जनाः विवेकशैलो यश्चायं, विस्तीर्णं शिखरं च यत् । अप्रमत्तत्वमिह यत्, पुरं जैनं च सुन्दरम् बहिरङ्गा जना येऽत्र, यः समाधानमण्डपः । सा चेयं वेदिका यच्च, विष्टरं यश्च भूपतिः यश्चायं परिवारोऽस्य, तत्सर्वं गम कीर्तय । विमर्शः प्राह यद्येवं, शृणु तत् प्रणिधानभाक् यदिदं पर्वताधारः, पुरं सात्त्विकमानसम् । स्वयमेव भुनक्त्येतत्, स कर्मपरिणामराट् शुभाशयाद्यैरन्यैश्च, भोजयेत् प्रवरैर्नृपैः । भटभुक्त्या न दत्ते तु, महामोहादिभूभुजाम् इदं हि भवचक्रोत्थमपि सर्वगुणास्पदम् । पङ्कोत्थमपि किं पञ, मन्दिरं न श्रियो भवेत् सुधामयमिदं स्फीतं, शीतगोरिव मण्डलम् । अर्कबिम्बमिव ध्वान्तैर्मुक्तमेतदुपद्रवैः ॥१२५४॥ ॥ १२५५ ॥ ॥ १२५६ ॥ ॥ १२५७ ॥ ॥ १२५८ ॥ ॥ १२५९ ॥ ४११ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442