Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 419
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महामोहनृपो लीनः, शीर्णाविद्याङ्गयष्टिकः । हतो मिथ्यात्ववेतालस्तथैतै रागकेसरी ॥ १२३६॥ भिन्नो द्वेषगजेन्द्रोऽपि, विदीर्णो मकरध्वजः । उच्चाटितश्च विषयाभिलाषस्तत्प्रिया हताः ॥ १२३७ ।। विहिसितो हासभटो, जुगुप्सा चारतिः क्षते । भयशोकौ विदलितो, नष्टा दुष्टाशयादयः (पञ्चभिः कुलकम्) | १२३८ ॥ नष्टानि डिम्भरूपाणि, ज्ञानाद्यावरणैः सह । मैत्र्यं ययुपाश्चैषां, चत्वारः सप्तमध्यगाः ॥ १२३९ ॥ भास्वन्ती ध्यानयोगेन, चित्तवृत्तिः प्रभासते। शान्तसर्वविकारेयमन्यैव हि महात्मनाम् ॥ १२४० ॥ प्रकर्षः प्राह विहितं, भवता साधु मातुल ! । अमून् दर्शयता नेत्रे, सुधावृष्टिः कृता मम ।। १२४१ ॥ अद्यापि दर्शनीयोऽसौ, वर्णितो यो महाबलः । स संतोषमहीपाल:, कृपालुः सर्वदेहिषु ।। १२४२ ।। विमर्शः प्राह विस्तीर्णो, दृश्यते योऽत्र मण्डपः । शुभचित्तसमाधानो, नाम्नाऽत्र वसतां प्रियः ॥ १२४३॥ स संतोषमहीपालो, जानाम्यत्र भविष्यति । प्रवेष्टव्यं तदत्रेति, प्रविष्टौ तौ शुभाशयौ ॥ १२४४॥ ताभ्यां स मण्डपो दृष्टो, विश्वतापव्यथाऽपहः । राजकान्त:स्थितो दृष्टो, नृपस्तत्र चतुर्मुखः विशालवेदिकाऽऽरूढः, प्रौढसिंहासनस्थितः । सेवितो भूरिलोकेन, नेवासेचनकः सताम् ॥ १२४६ ॥ ततः प्रकर्षस्तं दृष्ट्वा, महाऽऽनन्दतरङ्गितः । मातुलं मानसे किञ्चिच्छंशयालुरभाषत ।। १२४७॥ ॥ १२४५ ॥ ૪૧૦ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442