Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 418
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चेन्द्रियाणि शब्दाद्याः, पञ्च स्वान्तं सुखादयः । धर्माश्चेति प्रमाणे द्वे, प्रत्यक्षं लैङ्गिकं तथा ॥१२०० ॥ वैभाषिक-सौत्रान्तिक-योगाचाराश्च माध्यमिकनामा । बौद्धाश्चतुर्विधाः स्युः, प्राहुर्वैभाषिकास्तत्र ॥१२०१ ॥ क्षणिकं हि वस्तु जातिर्जनयति तत्स्थापिका स्थितिर्भवति । जर्जरयति च जरा, तन्नाशो नाशयति पुद्गलकम् ॥ १२०२ ।। विज्ञानरूपसंज्ञाः, संस्कारो वेदनेति चाभिमताः। परलोकगामिनो हि, स्कन्धाः सौत्रान्तिकैर्नाम्ना ॥ १२०३ ।। क्षणिकः संस्कारगणः, स्वलक्षणं पारमार्थिकं तेषाम् । शब्दार्थोऽन्यापोहो, मोक्षः सन्तानविच्छेदः ॥१२०४ ।। योगाचारमते खलु, भुवनं विज्ञानविलसितं सर्वम् । बाह्योऽर्थः सांवृतिकः, प्रकाशते वासनाजालात् ॥१२०५ ।। नीलादिवासनागृहमालयविज्ञानमभिमतं तैश्च । तत्संशुद्धिर्मुक्तिः, प्रवृत्तिविज्ञानततिरूपा ॥ १२०६ ॥ माध्यमिकमते सर्वं, स्वप्नाभं मानमेयधीमिथ्या। शून्यत्वदशा मुक्तिस्तदर्थमेवाखिलोऽभ्यास: ।। १२०७ ॥ लोकायतैः पुनर्मुक्तिनगरी न गरीयसी । मन्यते पुण्यपापादेरभावं ते हि मेनिरे ॥ १२०८॥ मानं प्रत्यक्षमेवैषां, तत्त्वं भूतचतुष्टयम् । विषयेन्द्रियदेहाख्या, समुदायेऽस्य जायते ॥ १२०९॥ चैतन्यं जायते तेभ्यो, मद्यानेभ्यो मदो यथा। जलबुबुदवज्जीवाः, पुमर्थो न स्मराद् ऋते ॥ १२१० ॥ दृष्टहान्यप्रदृष्टार्थकल्पनादोषसंभवात् । न भूतेभ्यः परं तत्त्वमिति लोकायतस्थितिः ॥ १२११ ॥ ४०० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442