Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११४०॥
॥ ११४१ ॥
॥ ११४२॥
|| ११४३॥
॥ ११४४ ॥
।। ११४५ ॥
रत्नत्रयोत्थवीर्याणां, मुक्तेर्मार्गेऽपि तिष्ठताम् । क्लेशास्तनूभवन्त्येव, सुखपद्धतिरेधते सदैवामुक्तमेताभिर्भवचक्रपुरं पुनः । चतुर्विधमपि प्रौढदु:खसंभारदारुणम् प्रकर्षः प्राह यद्येवं, ततोऽत्र वसतां नृणाम् । किं जायते न निर्वेदो, विमर्शः प्रत्यभाषत निर्विद्यन्ते जना नास्मान्महामोहादिमोहिताः । पापेन कर्मणा तेषां, रतिरत्रैव जायते प्रकर्षः प्राह तर्खेषां, चिन्तया किं दुरात्मनाम् । केवलं दर्शितं वीर्य, त्वया मोहादिभूभुजाम् कुदृष्टिजानिर्यस्तूक्तो, मिथ्यादर्शननामकः । भवचक्रे न तद्वीर्य, दर्शितं तत् प्रदर्शय विमर्शः प्राह तस्यैवाधीनं पुरचतुष्टयम् । स्थानानि दर्शयाम्युच्चस्तद्वशानां विशिष्य ते दृश्यन्ते मानवावासे, ह्यवान्तरपुराणि षट् । यान्यमूनि ध्रुवं तानि, तेषां स्थानानि लक्षय एकमत्र पुरं तावन्नैयायिकमितीरितम् । नैयायिकाश्च गीयन्ते, ते जना येऽत्र संस्थिताः अन्यद् वैशेषिकं नाम, पुरमत्राभिधीयते। जना वैशेषिकास्तेऽमी, येऽस्य मध्ये व्यवस्थिताः तथा परं बुधैः साङ्ख्यं, पुरमत्र प्रकाशितम् । ये चैतदधितिष्ठन्ति, लोकास्ते साङ्ख्यसंज्ञकाः इहापरं पुनौद्ध, पुरं संगीयते बुधैः । प्रसिद्धा बौद्धसंज्ञास्ते, जना मध्येऽस्य ये स्थिताः
|| ११४६ ॥
।। ११४७ ॥
॥ ११४८॥
॥ ११४९ ॥
॥११५० ॥
॥११५१ ॥
४०१
For Private And Personal Use Only

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442