Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०९२॥
॥ १०९३॥
॥ १०९४॥
॥ १०९५॥
॥१०९६॥
॥१०९७॥
अस्ति योऽनुचरः कालपरिणत्या महाबलः । यौवनाख्यस्तदादेशात्, प्रविष्टोऽङ्गेषु देहिनाम् संयुतो वल्गनोल्लासधावनोद्धैमसंमदैः । गर्वशौण्डियषिङ्गत्वधैर्याद्यैश्च पदातिभिः मूर्तिस्फूर्तिस्मरावेशसन्निवेशविधायकम् । क्रुद्धा कृत्येव तमियं, मृनाति सपरिच्छदम् ततो भवन्ति जरसा, जना मर्दितयौवनाः । भार्ययाऽपि पराभूतास्तनयैरप्युपेक्षिताः यो वेदनीयनृपतेर्वयस्यो रसनाभिधः । वर्णितस्तत्प्रयुक्तेयं, रुजाऽपि नृपतेर्भुजा रजस्तमोऽभिसंपातः, संप्राप्तिः कालकर्मणाम् । वातपित्तकफक्षोभो, हेतुः सर्वो रुजामयम् बाह्यान्यपि निमित्तानि, प्रयुङ्क्तेऽसात एव यत् । हेतुः प्राणिषु संलीनस्तत्त्वतस्तदयं रुजाम् स्वास्थ्यं निहत्य वीर्येण, करोत्यातुरतामियम् । ज्वरातिसारकुष्टार्श:प्रमेहप्लीहधूमकाः अम्लकग्रहणीशूलहिक्काश्वासक्षयभ्रमाः । गुल्महद्रोगसम्मोहकण्डून्मादजलोदरा: शिरोनेत्रार्तिवीसर्पच्छर्दिशोषभगन्दराः । सर्वेऽप्यस्याः परीवारस्तेनेयं भुवि दुर्जया हन्ति नीरोगतां सातनियुक्तां पाटवावहाम् । इयमाधि वितनुते, व्याधि चाखिलदेहिनाम् रुदन्ति दीर्घपूत्कारैर्दीनं जल्पन्ति मानवाः । लुठन्तीतस्ततो मूढा, अनया विह्वलीकृताः
॥ १०९८॥
॥ १०९९ ॥
॥ ११००॥
॥ ११०१ ॥
॥ ११०२॥
|| ११०३॥
४०४
For Private And Personal Use Only

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442