Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मिलनाद् धनदत्तस्य, हर्षाविष्टोऽथ वासवः । सबान्धवः समित्रश्च विततान महोत्सवम् अकाण्डवासवगृहक्षोभं हर्षविनिर्मितम् । प्रकर्ष: प्रेक्षते यावद्, दृष्टस्तावन्नरोऽसितः तेनोक्तं च नरः कोऽयं मातुल ! द्वारि तिष्ठति । विमर्शः प्राह शोकस्य, विषादोऽयं महासुहृत् वाञ्छत्यत्रैष पथिकः, प्रवेष्टुं यश्च कश्चन । भवनेऽस्य विषादोऽयं प्रविष्टेऽस्मिन् प्रवेक्ष्यति वासवस्य ततो गुह्यं प्रविश्य पथिकोऽब्रवीत् । पपात मूर्च्छितः पृथ्व्यां, विषादाधिष्ठितोऽथ सः वायुदानादिना लब्धचेतनः प्रललाप च । हा पुत्र ! तव संजाता, काऽवस्था मम कर्मणा निर्गतोऽभाग्यसंभाराद् वत्स ! वारयतोऽपि मे । विधिना निर्घृणेनेदं, कृतं तव करोमि किम् विषादस्तत्प्रलापेन, प्रविष्टः स्वजनेष्वपि । सर्वे हाहारखपराः, प्रलपन्ति स्म ते भृशम् अभून्मूढं गतानन्दं, वासवीयं गृहं ततः । तद् दृष्ट्वा मातुलं प्राह, प्रकर्षः कोऽयमुद्भ्रमः
स प्राहैष यथा पूर्वं, हर्षेण प्रविनाटितः । तपस्विनं विषादोऽयं, नाटयत्यधुना तथा प्रकर्ष: प्राह किं गुह्यं, कर्णे पान्थेन भाषितम् । विमर्शः प्राह पुत्रोऽस्य, वर्तते वर्धनाभिधः वार्यमाणोऽपि स गतो, द्रविणार्जनकाम्यया । देशान्तरे धनं भूरि, समागच्छ्नुपार्ण्य सः
४०२
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०४४ ॥
॥ १०४५ ॥
॥। १०४६ ॥
॥ १०४७ ॥
॥ १०४८ ॥
॥ १०४९ ॥
।। १०५० ॥
॥ १०५१ ॥
॥ १०५२ ॥
॥ १०५३ ॥
॥ १०५४ ॥
॥ १०५५ ॥

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442