Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 401
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ॥ ३३॥ इत्थं मिथ्यापथकथनया तथ्ययापीह कश्चिद्, मेदं ज्ञासीदनुचितमथो मा कुपत् कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य →स्तत्प्रमोहापोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥ ३४ ॥ प्रोद्भूतेऽनन्तकालात् कलिमलनिलये नाम नेपथ्यतोऽर्हन्मार्गभ्रान्तिं दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन्दुरध्वे । कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षेदम्भोम्भोधेः प्रमित्सेत् सकलगगनोल्लङ्घनं वा विधित्सेत् ॥ ३५ ॥ न सावद्याम्नाया न बकुशकुशीलोचितयतिक्रियामुक्ता युक्ता न मदममताजीवनभयैः । न संक्लेशावेशा न कदभिनिवेशा न कपटप्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः ||३६ ॥ संविग्नाः सोपदेशाः श्रुतनिकषविद: क्षेत्रकालाद्यपेक्षानुष्ठाना: शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः । वन्द्याः सत्साधवोऽस्मिण्णियम-शम-दमौचित्य-गाम्भीर्य-धैर्यस्थैर्योदार्यार्यचर्या-विनय-नय-दया-दाक्ष्य-दाक्षिण्यपुण्याः ॥ ३७ ।। विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने, सज्ज्ञानधुमणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरैः शक्रेण चैनच्छिदं, दम्भारिं विदुषां सदा सुवचसानेकान्तरङ्गप्रदम् ॥ ३८ ॥ ૩૯૨ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442