________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् । मुक्त्यै कल्पितदानशीलतपसोप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणवातस्य मोक्षः कुतः ॥ ३३॥ इत्थं मिथ्यापथकथनया तथ्ययापीह कश्चिद्, मेदं ज्ञासीदनुचितमथो मा कुपत् कोऽपि यस्मात् । जैनभ्रान्त्या कुपथपतितान् प्रेक्ष्य →स्तत्प्रमोहापोहायेदं किमपि कृपया कल्पितं जल्पितं च ॥ ३४ ॥ प्रोद्भूतेऽनन्तकालात् कलिमलनिलये नाम नेपथ्यतोऽर्हन्मार्गभ्रान्तिं दधानेऽथ च तदभिमरे तत्त्वतोऽस्मिन्दुरध्वे । कारुण्याद् यः कुबोधं नृषु निरसिसिषुर्दोषसङ्ख्यां विवक्षेदम्भोम्भोधेः प्रमित्सेत् सकलगगनोल्लङ्घनं वा विधित्सेत् ॥ ३५ ॥ न सावद्याम्नाया न बकुशकुशीलोचितयतिक्रियामुक्ता युक्ता न मदममताजीवनभयैः । न संक्लेशावेशा न कदभिनिवेशा न कपटप्रिया ये तेऽद्यापि स्युरिह यतयः सूत्ररतयः
||३६ ॥ संविग्नाः सोपदेशाः श्रुतनिकषविद: क्षेत्रकालाद्यपेक्षानुष्ठाना: शुद्धमार्गप्रकटनपटवः प्रास्तमिथ्याप्रवादाः । वन्द्याः सत्साधवोऽस्मिण्णियम-शम-दमौचित्य-गाम्भीर्य-धैर्यस्थैर्योदार्यार्यचर्या-विनय-नय-दया-दाक्ष्य-दाक्षिण्यपुण्याः ॥ ३७ ।। विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने, सज्ज्ञानधुमणि जिनं वरवपुः श्रीचन्द्रिकाभेश्वरम् । वन्दे वर्ण्यमनेकधाऽसुरनरैः शक्रेण चैनच्छिदं, दम्भारिं विदुषां सदा सुवचसानेकान्तरङ्गप्रदम्
॥ ३८ ॥
૩૯૨
For Private And Personal Use Only