________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत:दुर्भेदस्फुरदुग्रकुग्रहतमः स्तोमास्तधी - चक्षुषां, सिद्धान्तद्विषतां निरन्तरमहामोहादहम्मानिनाम् । नष्टानां स्वयमन्यनाशनकृते बद्धोद्यमानां सदा, मिथ्याचारवतां वचांसि कुरुते कर्णे सकर्णः कथम् ॥२७॥ यत् किञ्चिद्वितथं यदप्यनुचितं यल्लोकलोकोत्तरोत्तीर्णं यद्भवहेतुरेव भविनां यच्छास्त्रबाधाकरम् । तत्तद्धर्म इति ब्रुवन्ति कुधियो मूढास्तदर्हन्मतभ्रान्त्या लान्ति च हा !! दुरन्तदशमाश्चर्यस्य विस्फूजितम् ॥ २८ ॥ कष्टं नष्टदृशां नृणां यददृशां जात्यन्धवैदेशिकः, कान्तारे प्रदिशत्यभीप्सितपुराध्वानं किलोत्कन्धरः । एतत्कष्टतरं तु सोऽपि सुदृशः सन्मार्गगांस्तद्विदस्तद्वाक्याननुवर्तिनो हसति यत् सावज्ञमज्ञानि च ॥ २९ ॥ सैषा हुण्डावसपिण्यनुसमयहसद्भव्यभावानुभावा, त्रिंशश्चोग्रग्रहोऽयं खखनखमिति वर्षस्थितिभस्मराशिः। अन्त्यं चाश्चर्यमेतज्जिनमतहतये तत्समा दुषमा चेत्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ ३० ॥ सम्यग्मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः, श्रामण्यर्द्धिमुपेयुषः स्मयमुषः कन्दर्पकक्षप्लुषः । सिद्धान्ताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः, सत्साधून् विदुषः खलाः कृतदुषः क्षाम्यन्ति-नोद्यद्रुषः ॥ ३१ ॥ देवीयत्युरुदोषिणः क्षतमहादोषानदेवीयति, सर्वज्ञीयति मूर्खमुख्यनिवहं तत्त्वज्ञमज्ञीयति । उन्मार्गीयति जैनमार्गमपथं सम्यग्पथीयत्यहो !, मिथ्यात्वग्रहिलो जनः स्वमगुणाग्रण्यं कृतार्थीयति ॥ ३२ ।।
૩૯૧
For Private And Personal Use Only