Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 379
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः । पौरुषेयः स चाभीष्टस्तत्प्रणेता च सर्ववित् अतीन्द्रियार्थद्रष्टृत्वमावृतीनां परिक्षयात् । नष्टचित्तोपरागादिज्ञानलिङ्गादवस्थितम् परेभ्यो ज्ञातवस्तूनामुपदेशो न दुष्यति । आद्योपदेष्टा सर्वज्ञ इत्यत्रोक्तं न किञ्चन एवं दोषापवादेन सर्वज्ञत्वे व्यवस्थिते । तत्स्थाने क्लिश्यते लोक: संरम्भारम्भवादयोः सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु । इत्यादावुदितं पूर्वं यथा नान्योस्ति सर्ववित् चोदनैव परोक्षेर्थे प्रमाणमिति निश्चयः । कुतो मानात्तवापीह नाविनाभाववेदकम् तदूषणान्यसंरम्भाः बुद्धसर्वज्ञसाधने । जैना यानि वदन्त्येवं नैवं शक्ता हि भिक्षवः वेदवादिमुखस्थैवं युक्तिवैदिकलौकिकी । उपहासपदं याति सर्वा सा चारुचेतसः तेनैव सर्वविद्वाक्यप्रामाण्यमुपगच्छताम् । दानादौ स्वर्गमोक्षार्थं प्रवृत्तिर्युक्तिसङ्गता विषयश्चास्य तत्त्वानि नवैतानि जिनागमे । एतेभ्योऽभ्यधिकं नान्यद्विद्यते हि जगत्त्रये जीवाजीवौ च पुण्यं च पापं चाश्रवसंवरौ । निर्जराबन्धमोक्षौ च नवैतानि समासतः परिणामी तनुव्यापी कर्त्ता भोक्ता च चेतनः । संसारी बन्धयोग्यस्तु मोक्षयोग्यश्च कश्चन 360 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ।। २९६ ।। ॥ २९७ ॥ ॥ २९८ ॥ ॥ २९९ ॥ ॥ ३०० ॥ ॥ ३०१ ॥ ॥ ३०२ ॥ ॥ ३०३ ॥ ॥ ३०४ ॥ ॥ ३०५ ॥ ॥ ३०६ ॥ ॥ ३०७ ॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442