________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः । पौरुषेयः स चाभीष्टस्तत्प्रणेता च सर्ववित् अतीन्द्रियार्थद्रष्टृत्वमावृतीनां परिक्षयात् । नष्टचित्तोपरागादिज्ञानलिङ्गादवस्थितम् परेभ्यो ज्ञातवस्तूनामुपदेशो न दुष्यति । आद्योपदेष्टा सर्वज्ञ इत्यत्रोक्तं न किञ्चन एवं दोषापवादेन सर्वज्ञत्वे व्यवस्थिते । तत्स्थाने क्लिश्यते लोक: संरम्भारम्भवादयोः सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु । इत्यादावुदितं पूर्वं यथा नान्योस्ति सर्ववित् चोदनैव परोक्षेर्थे प्रमाणमिति निश्चयः । कुतो मानात्तवापीह नाविनाभाववेदकम् तदूषणान्यसंरम्भाः बुद्धसर्वज्ञसाधने । जैना यानि वदन्त्येवं नैवं शक्ता हि भिक्षवः वेदवादिमुखस्थैवं युक्तिवैदिकलौकिकी । उपहासपदं याति सर्वा सा चारुचेतसः तेनैव सर्वविद्वाक्यप्रामाण्यमुपगच्छताम् । दानादौ स्वर्गमोक्षार्थं प्रवृत्तिर्युक्तिसङ्गता विषयश्चास्य तत्त्वानि नवैतानि जिनागमे । एतेभ्योऽभ्यधिकं नान्यद्विद्यते हि जगत्त्रये जीवाजीवौ च पुण्यं च पापं चाश्रवसंवरौ । निर्जराबन्धमोक्षौ च नवैतानि समासतः
परिणामी तनुव्यापी कर्त्ता भोक्ता च चेतनः । संसारी बन्धयोग्यस्तु मोक्षयोग्यश्च कश्चन
360
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
।। २९६ ।।
॥ २९७ ॥
॥ २९८ ॥
॥ २९९ ॥
॥ ३०० ॥
॥ ३०१ ॥
॥ ३०२ ॥
॥ ३०३ ॥
॥ ३०४ ॥
॥ ३०५ ॥
॥ ३०६ ॥
॥ ३०७ ॥