________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इत्यादि गदितं पूर्वं तद्दोषाणामपाकृतेः । तत्र तत्रैव चोक्तानामभावापत्तित: स्फुटम् युगपत्परिपाट्या वा सर्वं वैकस्वभावतः । जानन्यथाप्रधानं वा शक्त्या वेष्येत सर्ववित् नानारूपसमाकारमेकं चेतः कथं नु ते । अनाकारे व्यवस्था तु नियतार्थे कथं तव भाव्यर्थानामनन्तत्वान्न कमोऽप्युपपद्यते । जात्याश्रयं च विज्ञानमस्मदादेर्न किं मतम् यथा प्रधानमन्येपि राजादीचं विदन्ति हि । सर्वज्ञतायामेवं तु स्युः सर्वज्ञास्तवाखिला : एकदैकमनेकार्थं वेत्ति स्याद्वादवादिनः । क्रमभाव्यक्षरोल्लेखिविकल्प इव मे मनः यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः । निहन्तुं हेतवः शक्ता: को नु तं कल्पयिष्यति एवं ज्ञेयप्रमेयत्ववस्तुसत्त्वादि यत्परैः । साधनं तदसिद्धादिदोषदुष्टमुदाहृतम् सर्वज्ञे सति युज्येते युगपत् क्रमशोपि वा । तस्य ज्ञानं विजानाति भावान्विश्वगतानिति सिद्धे तवापि चैतस्मिन् प्रेरणापि समा तव । न सिद्ध: किं विकल्पेन प्रेरणा तां विना शृणु एतदत्रोदितं पूर्वं नैव चातोऽपरा प्रमा । दानादेरविनाभावग्राहिकेति निवेदितम् वेदस्यासत्त्वतो नैव तस्मादर्थविनिश्चयः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता
39C
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८४ ॥
॥ २८५ ॥
॥ २८६ ॥
॥ २८७ ॥
॥ २८८ ॥
॥ २८९ ॥
॥ २९० ॥
२९१ ॥
।। २९२ ।।
॥ २९३ ॥
॥ २९४ ॥
।। २९५ ॥