Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 201
________________ शब्दकौस्तुभं । मयड्वैतयोर्भाषायामभक्षाच्छादनयोः ॥ २८४ ॥ प्रकृतिमात्रान्मय वा स्यात् । अश्ममयम् । आश्मम् । भाषायां किम् । खादिरो ग्रूप इति वृत्तिकाराः । वस्तुतस्तु वेदे बहूवचः प्रयुक्तस्य मयटोऽर्थान्तरपरत्वमेवेति तात्पर्यग्रहार्थमेवेदम् । व्य चछन्दसीतिसूत्रस्य व्यच एवेति नियमार्थत्वे यद्यपीदं गताये तथापि विपरीतनियमाशङ्का निवृत्यर्थं बोध्यम् । अभक्षाच्छादनयोरिति किम् । मौद्गः सूपः । कार्पासमाच्छादनम् । अधिकारादेव सिद्धे एतयोरिति वचनमित उत्तरेपां प्राणिरजसादिभ्योऽञ् इत्यवमादानामपि विषये पक्षे प्रवृत्यर्थम् । कपोतमयम् । इह विकारावयवाभ्यां सह प्रत्येकमभक्षाच्छादनयोरिति सम्बध्यते । समास निर्देशात् । अतो यथासंख्यं न । अत्रेदमवधेयम् । आनन्दमयोऽभ्यासादित्यधिकरणे विका रशब्दान्नेति चेन्न प्राचुर्यादिति सूत्रयतो व्यासस्यापि आनन्दशब्दस्य बह्वच्कतया छन्दसि विकारे मयटू न लभ्यत इत्येव आशयः । अत एव मायपाठोऽप्यकिञ्चित्करः । उभयसम्भव एव तस्य निर्णायकत्वात् । एतच्च वृचिकृतामनुकूलम् । उत्तरमीमांसाभाष्यकारैस्तु विकार एवायं मयडिति सिद्धान्तितम् । तेषामयं भावः अन्नमयप्राणमयमनोमयेषु व्यच्त्वाद्यद्यपि सिद्धिस्तथापि विज्ञानमये तावद्विकारे मयडर्थ वृत्ति कृद्भिरपि यतनीयं तत्रायं यत्नः तात्पर्यग्रहस्य न्यायानुसंधानेनैव सिद्धेस्तदर्थं पाणिनिना सूत्रारम्भदर्शनाच्चेह भाषा - ग्रहस्त्याज्यः । तथा च व्यचश्छन्दसीति नोत्वद्वर्धेति च द्विसूत्र्यपि त्याज्या | छन्दसि सकलविकल्पानां व्यवस्थिततायाः सर्वसम्मतत्वात् । उर्ऋत् नित्यं छन्दसीत्यादीनां वैयाकरणैरित्थमेत्र प्रत्याख्यातत्वाच्च । श्रीग्रामरायोश्छन्दसीत्यत्र श्रियश्छन्द १९६

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242