Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 223
________________ २१८ आग्रभोजनिकः । शब्द कौस्तुभे । श्राणामांसौदना ठिन् ॥ ६६ ॥ उक्तेऽर्थे | इकार उच्चारणार्थः । टो ङीबर्थः । श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । यवागूरुष्णिका श्राणा विलेयी तरला च सेत्यमरः । मांसौदनिकः । मांसौदनिकी । मांसौदनग्रहणं संघातविगृहीतार्थमित्येके । युक्तं चैतत् । प्रत्ययान्तरारम्भसामर्थ्यात् । ओदनिक इत्यत्र वृद्धिवारणेन हि टिठन् सार्थकः । अन्यथा ठबैव सिद्धौ किं तेन । भक्तादणन्यतरस्याम् ॥ ६७ ॥ पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः । तत्र नियुक्तः ॥ ६८ ॥ आकरे नियुक्त आकरिकः । अगारान्तात् ठन् ॥ ६९ ॥ देवागारे नियुक्तो देवागारिकः । अध्यायिन्यदेशकालात् ॥ ७० ॥ सत्रेत्येव । निषिद्धदेशकालवाचकाट्ठक् स्यात् । श्मशानेSata माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । आमावास्थिकः । अदेशकालात्किम् । काश्यां पूर्वाऽधीते । कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७१ ॥ तत्रेत्येव । क्रियातत्वे चायं व्यवहरतिर्वर्तते । वंशकठिने व्यवहरति वांकठिनिकः । वंशा वेणवः कठिना अस्मिन्देशे स वंशकठिनः । तस्मिन् देशे या क्रिया यथानुष्ठेया तां तथैवानु

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242