Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 226
________________ ४ अध्याये ४ पादे २ आह्निकम् । २२१ विध्यत्यधनुषा ॥ ८२ ॥ द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः । पद्यत्यतदर्थ इति पद्भावः । उख्याः कण्टकाः । अधनुषा किम् । चोरं विध्यति । सम्भाव्यते हि चोरव्यधने धनुषः करणता यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वेनासामदेिव न भवति तद्धितवाच्यायाः क्रियायाः गुणीभावेन भवति वै प्रधानस्येति न्यायस्यहानवतारत् । न चात्राविग्रहा गतादिस्थेति न्याय आश्रयितुं श. क्यः धातूपात्तक्रियायामेव तथा व्युत्पत्तेः । अत एव कण्टकैः पादौ विध्यतीत्यादौ न भवतीति वृत्तिमतम् । भाष्ये त्वधनुषेति प्रत्याख्यातम् । चोरं विध्यतीत्यत्र तु अनभिधानाअति दिक् । धनगणं लब्धा ॥८३ ॥ वृनन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गरायः। ___ अन्नाराणः ॥ ८४ ॥ अनं लब्धा आनः। वशं गतः ॥ ८५ ॥ वशनं वशः इच्छा । वशिरण्योरुपसंख्यानमित्यपू । वशं गतो वश्यः । परेच्छानुसारीत्यर्थः । पदमस्मिन् दृश्यम् ॥ ८६ ॥ शक्यर्थे ऋदुपधादिति क्यप् । पदं दृश्यमास्मिन्पयः कईमः । पद्याः पांसवः । नातिद्रवो नातिशुष्कः कर्दमः पद्य उच्यते । नात्यल्पा नातिबहुलाः पांसवोऽपि तथेरिताः ।

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242