Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 237
________________ २३२ शब्द कौस्तुभे । । मूर्धन्वतीरिति बहुवचनम् । वयस्यास्त्रिति किम् । अग्रे यशस्विन्यशसे समर्थय । अयं मूर्वा परमेष्टितिकेवलमूर्धशब्दवता चयशब्दरहितेन मन्त्रेणोपधेयासु मा भूत् । गायत्रीः पुरस्तादुपदधाति तेजो वै गायत्री । तेज एव मुखतो धत्ते । मूर्धन्वतीभवन्तीति श्रूयते । तत्र उपधानमन्त्रेष्वग्निर्मूर्धाभुवइत्यादिषु वयःशब्दाभावात्कथमस्य सूत्रस्य प्रवृत्तिरिति चेत्, अत्राह । प्रथममतुबन्त एवासाविष्टकास्वौपचारिकः सृष्टिप्राणभृदादिवत् । एतावान्परं भेदः । स्टष्यादावेकस्यापि मतुपो विरहालक्षितलक्षणा हह तु लक्षणामात्रमिति । अत्रेदमवधेयम् । सूत्रे वयस्यास्वितिप्रयोगोऽपि लाक्षणिकः । वयस्याशब्देन छन्दसि व्यव हृतावित्यर्थात् । यद्वा । छन्दोवत्सूत्राणीति भाष्यकारेष्टेरय - मेव ज्ञापकः । अथवा सामान्यापेक्षं ज्ञापकम् । छान्दसा अपि कचिद्भाषायां प्रयुञ्जत इति । तेन तुरासाहं पुरोधाय । अनु पस्थित परिपंथिभिः पार्थिवैरित्यादि सिद्धम् । मत्वर्थे मासतन्वोः ॥ १२७ ॥ · · यत्स्यात् छन्दसि । नभोऽभ्रम् तदस्यस्मिन्निति नभस्यो मासः । तपस्यः । मधव्यः । ओजस्या तनुः । मासतन्वोः किम् । स्वध्वरासो मधुमन्तो अग्नयः । अत्र वार्त्तिकद्वयम् । मासतन्वोरनन्तरार्थे वा । लुगकारेकाररेफाश्चेति । वाशब्दश्चार्थे । मध्वस्मिन्ननन्तरमस्ति मधव्यो मासः । लुक् । मधुः । तपः । नभः । तपोनभसोः क्लीवत्वं छान्दसम् । अकार । इषः । ऊर्जः । इष्यमाणत्वादिदू अन्नम् । ऊर्ग बलम् । तद्वानित्यर्थः । इकारः । शोचनं शुक् । सास्मिन्नस्ति शुचिः । रेफः । शुक्रः । अयस्मयादित्वाज्जश्त्वं न ।

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242