Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 240
________________ ४ अध्याये ४ पाढे २ आह्निकम् । २३५ रूप्यः । मयट् च मयड् बैतयोर्भाषायामभक्ष्याछादनयोः । तत्प्रकृतवचने मयहिति । तेन यथायोगं पञ्चमीषष्ठीपथमाः समर्थविभक्तयः । सोम्यं मधु । सोममयमित्यर्थः । मधोः ॥ १३४ ॥ य इति निवृत्तम् । मधुशब्दान्मयडर्थे यत् स्यात् । मध. ध्यान् । मधुपयानित्यर्थः । __ वसोः समूहे च ॥ १३५ ॥ चान्मयडर्थे । यथायोग समर्थविभक्तिः । वसोरितियोगविभागात्स्वार्थेऽपि यत् । अग्निरीशे वसव्यस्य । हस्तौ पृणस्त्र बहुभिर्वसव्यैः । पृणातिः पूरणकर्मा । अक्षरसमूहे छन्दस उपसंख्यानम् । ओश्रावयेति चतुरक्षरम् । अस्तु श्री. पडिति चतुरक्षरम् । येयजामाह इति पञ्चाक्षरम् । यजेति बक्षरम् । यक्षरं वषट्कारः । एष वै सप्तदशाक्षरश्छन्दस्यः प्र. जापतिर्यज्ञमनुविहितः । सप्तदशाक्षरात्मकश्छन्दस्योऽक्षरसमूहः प्रजापतिः । प्रजापतिना दृष्ट इत्यर्थः । छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यत्प्रत्ययः । नक्षत्रात घः ॥ १३६ ॥ स्वार्थे । नक्षत्रियेभ्यः स्वाहा । सर्वदेवात्तातिल् ॥ १३७ ॥ आभ्यां तातिल स्यात्स्वार्थे छन्दसि । सविता नः सवतु सर्वतातिम् । प्रदक्षिणिदेवतातिमुराणः।

Loading...

Page Navigation
1 ... 238 239 240 241 242