Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 241
________________ २३६ शब्दकौस्तुभे । शिवशमरिष्ठस्य करे ॥ १३८ ॥ करोतीति करः पचायच् । कृद्योगलक्षणा कर्मणि षष्ठीह समर्थविभक्तिः । शिवं करोति शिवतातिः । याभिः शन्ताती भवथो ददाशुष अथो अरिष्टतातये । भाषायां शिवतातिप्रभृतीनां प्रयोगश्चिन्त्यः । भावे च ॥ १३९ ॥ शिवादिभ्यो भावे तातिल स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः । यतोऽधिकारः समाप्त श्छन्दसीत्यस्य च ॥ इति पदवाक्यप्रमाणपारावारपारीणस्य श्रीलक्ष्मीधरसूरेः सूनुना भट्टोजिदीक्षितेन कृते शब्दकौस्तुभे चतुर्थस्याध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥ पादः समाप्तोऽध्यायश्च ॥

Loading...

Page Navigation
1 ... 239 240 241 242