Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२२८
शब्दकौस्तुभे ।
च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधिनां छन्दसि वैकल्पिकत्वात् तद्यथा। मुञ्जधानाम पर्वतः । तत्र भवः । मौञ्जवतः । सोमस्येव मौञ्जवत्तस्य भक्षः । आपादसमाप्तेश्छन्दोऽधिकारः ।
पाथोनदीभ्यां ड्यण ॥ ११० ॥ तमु त्वा पाथ्यो वृषा। चनोदधीत्त नाद्यो गिरो मे। पाथसि भवः पाथ्यः।नयां भवो नाद्यः। पाथोन्तरिक्षमिति वृत्तिकाराः। पाति भूतान्यवकाशदानेनेति व्युत्पत्तेः । यद्यपि पातेले जुट च उदके थुट् अत्रे चेति अत्रोदकयोः पाथःशब्दो व्युत्पाद्यते सथापि बाहुलकादन्तरिक्षेऽपीति भावः ।
वेशन्तहिमवद्दयामण् ॥ १११॥ वेशन्तः पल्बलम् । विशेझच् । तत्र भवा आपो वैशन्त्यः । वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ।
स्त्रोतसो विभाषा ड्यड्डयौ ॥ ११२ ॥ पक्षे यत् । ड्यड्डययोस्तु स्वरे भेदः । स्रोतसि भवः स्रो. स्यः । स्रोतस्यः।
सगर्भसयूथसनुत्ताद्यत् ॥ ११३॥ अनुभ्राता सगर्म्यः । अनुसखा सयूथ्यः । योनः सनुत्य उत वा जिगत्नुः । नुतिर्नुतम् । नपुंसके भावे क्तः । सगर्भादयस्त्रयोऽपि कर्मधारयाः । सर्वत्र समानस्य छन्दसीति सभावः ततो भवार्थे यत् । यतोऽपवादः ।
तुग्राढन् ॥ ११४ ॥ भवार्थे । पक्षे यदपि छान्दसत्वात् । आवः शयं सुषमन्तु

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242