Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 234
________________ ४ अध्याये ४ पादे २ आह्निकम् । २२९ ग्यास्त्विति बहूचः । तुग्रियास्विति तु शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः । अग्राद्यत् ॥ ११५ ॥ अग्रे भवमग्न्यम् । भवे छन्दसीत्येव सिद्धे यच्छयन्भिर्वाधा मा भूदिति यद्विधीयते । घछौ च ॥ ११६ ॥ चकारो ऽव्यवहितं घनं समुच्चिनोति नतु संनिहितमपि यतम् । पूर्वेणैव तत्सिद्धेः । अग्रियः । अन्तोदात्त आयुदात्तश्च । अग्रीयः । लोके त्वग्रिम इत्येव । कथं तर्हि एतच्छुभं विजानीहि ब्राह्मणाम्यस्य लक्षणमिति । छन्दोवदृषयः कुर्वन्तीति प्राञ्चः । वस्तुतस्तु साध्वर्थे यत् । शाखादित्वादिवार्थे य इति वा । समुद्राभ्राद्धः ॥ ११७ ॥ । । समुद्रिया अप्सरसो मनीषिणाम् । नानदतो अम्रियस्येत्र घोषाः । बर्हिषि दत्तम् ॥ ११८ ॥ भव इति निवृत्तम् । अर्चिशुचिहुसृपिछा दिछर्दिभ्य इसि हेर्नलोपश्च । वर्हिः कुशहुताशयोः । बर्हिष्येषु निधिषु प्रियेषु ॥ दूतस्य भागकर्मणी ॥ ११९॥ भागशः । कर्म क्रिया । यदने पासि दूत्यम् । भागे तस्येदमित्यणि प्राप्ते वचनम् । कर्मणि तु दूतवणिग्भ्यामित्योपसंख्यानिके ये प्राप्ते | 1 रक्षोयातूनां हननी ॥ १२० ॥ षष्ठीबहुवचनम् । ताभ्यां रक्षःशब्दयातुशब्दाभ्यां हननकरणभूतेत्यर्थे यत्स्यात् छन्दसि । कुद्योगे कर्मणि षष्ठी । याते अने

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242