Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 225
________________ २२० सन्दकौस्तुभे । यत् ।सर्वा धूः सर्वधूरा । पूर्वकालैकेति तत्पुरुषे ऋपूरिति समासान्तः परवल्लिङ्गमिति स्त्रीत्वादाप् । सर्वधुरां वहति सर्वधुरीणः । ख इति योगविभाग इष्टसिद्ध्यर्थः कर्तव्य इति वृत्तिः । दक्षिणा धुरं वहतीति तद्धितार्थे समासे ततः समासान्तेऽकारे टाषि च खः । दक्षिणधुरीणः । एवमुत्तरधुरीणः । एकधुराल्लुक च ॥ ७८ ॥ एकधुरं वहतीति एकधुरीणः । एकधुरः । चकारेण खस्यानुकरणसामर्थ्यात्पक्षे श्रवणम् । अन्यथा हि चकारं विनैव भाकरणिकस्य यतो लुग्विधीयेत । . शकटादण् ॥ ७९ ॥ शकटं वहति शाकटो गौः । ननु तस्येदमित्यणा सिद्ध यो हि शकटं वहति शकटस्यासौ भवति । अत्राहुः । आरम्भ. सामर्थ्यात्तदन्तविधिः । तेन द्वे शकटं वहति द्वैशकटिकः । प्राग्दीव्यतीयो लुङ् न । हलसीरात ठक् ॥ ८०॥ हलं वहति हालिकः । सैरिकः । ननु तस्येदं हलसीरा. हनिति शैषिकेणैव सिद्धम् । सत्यम् । आरम्भसामोदिहापि तदन्तविधिः । द्वैहालिकः। संज्ञायां जन्या ॥ ८१ ॥ जनी वधूः जायतेऽस्यां गर्भ इति जनिघसिभ्यामिण् । ज. निवध्योश्चेति वृद्धिप्रतिषेधे कृदिकारादिति ङीष् । जनीं वहतीति जन्या जामातुर्वयस्या । सा हि प्रणयकलहादौ वधू जामातुः समीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुक्त । पातेति जन्यामवद कुमारीति ।

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242