Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 229
________________ २२४ सन्दकौस्तुभे। स्यर्थः । समीकृतमिति यावत् । रथसीताहलेभ्यो यद्विधाविति तदन्तविधिः । परमसीत्यम् । द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत् द्वित्यिम् । तुलया समितं तुल्यम् । संमितं सदृशम् । यथा तुला परिमेयं परिच्छिनत्ति एवं तुल्य. मपि प्रतियोगिनं सादृश्येन परिच्छिननीत्यर्थः । रुढिश्वेयम् । संज्ञायामित्यधिकारात् । धर्मपथ्यर्थन्यायादनपेते ॥ ९१ ॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । संसाधिकारादभिधेयनियमः । तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यं न तु मार्गादनपेतश्चोरोऽपि । छन्दसो. निर्मिते ॥ ९२॥ तृतीयान्ताच्छन्दसो यत्स्यानिर्मिते । छदि संचरण इति चुरादेर्धातूनामनेकार्थतया इच्छापर्यायोऽयं छन्दःशब्दोऽसुनन्तः घअन्तस्तु प्रसिद्ध एव । स्वछन्दोउ उइछकछेत्यादौ । वेदवाची त्रिष्टुबादिवाची च सान्त इह न गृह्यते संज्ञाधि. कारात् । तत्र निर्माणे इछायाः करणत्वात्सामर्थ्यात्तृतीयान्तादिति लभ्यते । छन्दसा निर्मितं छन्दस्यम् । इछया कृतमित्यर्थः । उरसोऽण च ॥ ९३ ॥ चाद्यत् । उरसा निर्मितः पुत्र औरसः । उरस्यः । सं. ज्ञाधिकारानेह । उरसा निर्मितं सुखम् । हृदयस्य प्रियः ॥ ९४ ॥ हृदयशब्दाषष्ठचन्ताधत्स्यात्मीतिकरेऽर्थे । हृयो देशः। हृदयस्य हल्लेखयदण्लासेविति हृदादेशः ।

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242