Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 221
________________ २१६ सन्दकौस्तुभे । शिल्पम् ॥ ५५ ॥ ___ तदस्येत्यनुवर्तते । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । पाणविकः । मृदङ्गवादनादौ लाक्षणिकी प्रकृतिः । मुख्यार्थे वृत्तेस्त्वनभिधानान्न । शिल्पं कौशलं तच्च मृदङ्गवादनादिविषयके । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः। मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥ मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झाझरः । झाझरिकः । इदमेव सूत्रं ज्ञापकं तत्सम्बद्धक्रियाविषये लाक्षणिकेभ्यः शिल्पप्रत्यय इति । मड्डुकझझरयोमुख्यार्थस्य शिल्पेन सामानाधिकरण्यायोगात् । प्रहरणम् ॥ ५७ ॥ तदस्येत्येव ! असिः प्रहरणमस्यासिकः । चाक्रिकः । धानुष्कः । इणः ष इति विसनीयस्य षः । परश्वधाठञ् च ॥ ५८ ॥ चाक् । परश्वधः प्रहरणमस्य पारश्वाधिकः । द्वयोः कु. ठारः स्वधितिः परशुश्च परश्वधः । शक्तियष्टयोरीकक् ॥ ५९ ॥ शक्तिः प्रहरणमस्य शाक्तिकः । याष्टीकः । अस्ति नास्ति दिष्टं मतिः ॥ ६० ॥ तदस्यत्येव । अस्ति परलोक इत्येवं रूपा मतिर्यस्य स मास्तिकः । तद्विपरीतो नास्तिकः । दैवं दिष्टं भागधेयम् । दिष्टमिति मतिय स दैष्टिकः । अस्तिनास्तिशब्दौ निपातौ ।

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242