Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 219
________________ २१४ शब्दकौस्तुभे। कर्मता बोध्या। विशेष्यानुरोधेन तु लोके सप्तमी प्रायशः प. युज्यते । कुरुक्षेत्रे समवेता इति । परिषदो ण्यः ॥ ४४ ॥ समवायान् समवैतीत्यर्थे परिषदं समवैति परिषद्यः । सेनाया वा ग्यः ॥ ४५ ॥ पक्षेढक् सैन्याः । सैनिकाः। संज्ञायां ललाटकुक्कुट्यो पश्यति ।। ४६ ॥ ललाटकुक्कुटीशब्दाभ्यां पश्यतीसर्थे ठक् स्यात् संज्ञायाम् । संज्ञानं संज्ञा प्रतिपत्तिः प्रसिद्धिरिति यावत् । प्रसि. स्यनुसारो योगो ग्राह्यो न तु स्वेच्छयेत्यर्थः । लालाटिकः से. षकः । द्वारे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः । लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च य इत्य. परः । वदान्योऽपि कयं दद्याल्लालाटिक्यै ललाटिकामिति लक्ष्यम् । कौक्कुटिको भिक्षुः । संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छति । कुक्कुटीशन्देन तत्पाता. ईः स्वल्पदेशो लक्ष्यते । तथा चाल्पमेव देशं पश्यन् कौक्कुटिक उच्यते । इदमेव विषयविभागं सूचयितुं संज्ञायामित्युक्तम् । तस्य धर्म्यम् ॥ ४७ ॥ आपणस्य धर्म्यमापणिकः । अण महिष्यादिभ्यः ॥ ४८ ॥ महिण्या धर्म्य माहिषम् । याजमानम् । होत्रम् । ऋतोऽज्ञ ॥ ४९ ॥ यातुर्धय॑ यात्रम् । नराधेति वक्तव्यम् । नरस्य धा

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242