Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 206
________________ ४ अध्याये ३ पादे २ आह्निकम् । २०१ कस्य विकारो नैष्किकः । शतस्य विकारः शत्यः । शतिकः । शताच ठन्यतौ । साहस्रः । शतमानविंशतिकसहस्त्रवसनादण् । उष्ट्राद् वुञ् ॥ २९९ ॥ पारायबोऽपवादः । उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः । __ उमोर्णयोर्वा ॥ ३० ॥ औमम् । औमकम् । और्णम् । और्णकम् । उमाशब्दस्तुणधान्याधुदासः । उर्णाशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ताभ्यां वुनभावे यथाक्रममणबौ । एण्या ढञ् ॥ ३०१॥ पाण्योऽपवादः। ऐणेयं मांसम् । एणस्य तु ऐणम् । गोपयसोर्यत् ॥ ३०२॥ गव्यम् । पयस्यम् । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव तथापि मयड् वैतयोरिति पक्षे प्राप्तं मयटं बाधितुं पु. नरयं यद्विधिः ॥ द्रोश्च ।। ३०३ ॥ __ओरनोऽपवादः । एकाचो नित्यमिति मयटो वा । दुर्वृक्षः । पलाशी बुद्रुमागमा इत्यमरः । द्रोविकारोऽवयवो वा द्रव्यम् । ओर्गुणः वान्तोयिप्रत्यये । पृथिव्यादिषु तु गुणैर्दूयते आधीयत इति दुधातोरचो यदिति यत्पत्ययान्तो द्रव्यशब्दः । माने वयः ॥ ३०४ ॥ द्रोरित्येव । यतोऽपवादः । द्रोर्विकारभूतं प्रस्थादि परि. माणं दुवयम् । यौतवं दुवयम् । यौतवं दुवयं पाय्यमिति मानार्थकं त्रयमित्यमरः ।

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242