Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 215
________________ शब्दकौस्तुभे । तत्प्रत्यनुपूर्वमीपलोम कूलम् ॥ २८ ॥ प्रत्यनुपूर्वमीपलोमकूलान्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्वितीयान्ताद्वर्तत इत्यर्थे ठक् स्यात् । वृतेरकर्मकत्वेपि क्रियाविशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः । ऋक् पूरित्यकारः समासान्तः द्व्यन्तरूपसर्गेभ्य इतीत्वम् । व्युत्पत्तिमात्रं चेदम् । प्रतिकूलानुकूल पर्यायौ हमौ । एवं लोमकूलशब्दावप्यविवक्षितार्थावेव । रूढ्या योगापहारात् । ऊदनोदेशे इत्युत्वं तु नेह । अदेशत्वात् । २१० परिमुखं च ॥ २९ ॥ परिमुखं वर्तते पारिमुखकः । चात्पारिपार्श्विकः । अपपरी वर्जन इति परेः कर्मप्रवचनीयता पञ्चम्यपापरिभिरिति प मी। अपपरिवहिरश्चवः पञ्चम्येत्यव्ययीभावः । परिमुखं वर्तते इत्यर्थे ठक् । स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । यदा तु सर्वतो भावे परिशब्दः प्रादिसमासश्व तदा यतो यतः स्वामिनो मुखं ततो यो वर्त्तते सोऽर्थः । एवं पारिपार्श्विकोऽपि । प्रयच्छति गर्ह्यम् ॥ ३० ॥ द्वितीयान्तात्प्रयच्छतीत्यर्थे ठक् स्यात् यत्प्रयच्छति ग चैतत् । द्विगुणार्थं द्विगुणम् । तात्मथ्यात्ताच्छद्यं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिक उत्तमर्णः । बहुवृद्ध्युद्देश्य कदानकर्मसया गर्ह्यत्वम् । वृद्धेर्वृधुषिभावो वक्तव्यः । वृद्ध्यर्थे दृद्धिः तां प्रयच्छति बाधुषिकः । अथ कथं वृद्ध्याजीवश्च वार्धुषिरित्यम

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242