Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 214
________________ ४ अध्याये ४ पादे २ आह्निकम् । २०९ अपमित्ययाचिताभ्यां कक्कनौ ॥२१॥ अपमित्येति ल्यबन्तमव्ययम् । उदीवां माङ इति स्काप्रत्यय अपेत्यनेन सह गतिसमासात् । मयतेरिदन्यतरस्यामि. तीत्वम् । अतो नास्मात्तृतीयान्तात्पत्ययः किन्तु वचनात्मथमान्तादेव । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निवृत्तं याचितकम् । संसृष्टे ॥ २२ ॥ दधा संसृष्टं दाधिकम् । चूर्णादिनिः ॥ २३ ॥ चूर्णैः संसृष्टाश्चूर्णिनो ऽपूपाः । लवणाल्लुक् ॥ २४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् । लव. णा यवागूः। मुद्गादण् ॥ २५ ॥ मुरैः संसृष्टो मौद्ग ओदनः । व्यञ्जनरुपसिक्ते ॥ २६ ॥ दमा उपसिक्तं दाधिकम् । व्यज्यतेऽनेन ओदनादिरस इति पञ्जनम् । तदाचिना उपसिक्के सिञ्चनेन मृद्कृत एव यथा स्पादिति नियमार्थमिदम् । तेनेह न स्पेन संसृष्टा स्थाली । ओजःसहोम्भसा वर्तते ॥ २७ ।। मोजसा वर्तते चौमासिक शुरः । साहसिकवारः । भ. म्भसिको मत्स्यः । शब्द. तृतीय. 14.

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242