Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 216
________________ ४ अध्याये ४ पादे २ आह्निकम् । २११ रः । वाधुषिः समकम्पयतेति । नस्तेनः स्यात्रवाधुषी बाधुष्यं लवणक्रियेति च । स्वच्छन्दवाचः कवय इति हरदत्तः । गई किम् । द्विगुणं वृद्धिं च प्रयच्छत्यधमणः । कुसीददशैकादशात्ष्ठन्ष्ठचौ ॥ ३१ ॥ आभ्यां गार्थाभ्यां यथासंख्यं ठनष्ठचौ स्तः प्रयच्छ. तीत्यर्थे । कुसीदं वृद्धिस्तदर्थ द्रव्यमपि कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्था दशैकादशशब्देनोच्यन्ते तथा च विशेषणसमासः । एकादशार्थत्वादेकादश एकादश च ते वस्तुतो दश चेति विग्रहः । संख्याया अल्पीयस्या इति । पूर्वनिपातः । इहैव सूत्रे निर्देशादकारः समासान्तः । अत एव पाक्यमप्यकारान्तेन भवति । दशैकादशान् प्रयच्छति दशैकादशिकः । दशैकादशिकी । इहाप्युत्तमर्ण एव तद्धितार्थः । उञ्छति ॥ ३२ ॥ षदराण्युञ्छति बादरिकः । श्यामाकिकः । काणिकः । भूमौ पतितस्यैकैकस्योपादानमुञ्छः । रक्षति ॥ ३३ ॥ समाज रक्षति सामाजिकः । शब्ददर्दरं करोति ॥ ३४ ॥ शब्दं करोति प्रकृत्यादिविभागेन व्युत्पादयति शादि. कः । अभिधानस्वभावाद् व्युत्पादन एवायं प्रत्ययः । नेह शन्दं फरोति वर्बरः । दादुरिकः कुलालः । दईरशम्दः पात्रविशेषवाची । अनुकरणशब्द इत्येके । पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ एभ्यो द्वितीयान्तेभ्यो इन्तीत्यर्थे उ स्यात् । स्वरुपस्प

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242