Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 212
________________ ४ अध्याये ४ पादे १ आह्निकम् । २०७ वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्नेन मूल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं सङ्का. तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः । आयुधाच्छ च ॥ १४ ॥ चाट्ठन् । आयुध्यन्त्यनेनेत्यायुधम् । घनर्थे कविधानमिति कः । आयुधेन जीवति आयुधीयः । आयुधिकः । हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सलेन हरति औत्सङ्गिकः । उत्सङ्ग उडुप उत्पत पिटक पिटाक । भस्त्रादिभ्यष्ठन् ॥ १६ ॥ भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् भस्त्रिकी । भखा चर्मविकारः । येन लोहादि ध्मायते जलादिकं च नीयते । शीर्षेभाराब्दोऽत्र पठ्यते । निपातनाद् शीर्षभावः सप्तमीसमा. सश्च । तत्पुरुषे कृतीति वा अलुक् । पक्षे शीर्षभारः । एवमंसे. भारः । अंसमारः। विभाषा विवधात् ॥ १७॥ तृतीयान्तादस्माद्धरत्यर्थे ष्ठन् वा स्यात् । पक्षे ठक् । विवधेन हरति विवधिकः । विविधकी । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः। वीवधिकी । ठकि प्राग्वत् । वीवधाचेति वक्तव्यमिति वार्तिकं दृष्ट्वा सूत्रेऽपि वीवधशब्दो वृत्तिकता प्रक्षिप्तः वार्तिकं तु न्यायसिद्धार्थकथनपरम् । विवधबीवधशब्दौ पर्यायौ पथि पर्याहारे च वर्तेते इति वृत्तिकृतः । पर्याहारो नाम परित आहियतेऽनेन तण्डु लादिकमिति व्युत्प

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242