Book Title: Shabda Kaustubh Part 03
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 208
________________ ४ अध्याये ३ पादे २ आदिकम् । २०३ मुदात्तमित्यर्थः । वनमालिका । लघावन्त इति मध्योदात्तोऽयम् । जात्याः पुष्पं जाती। विदार्या मूलं विदारी । अंशुमती । बृहती । जातीबिदारीशब्दो गौरादिङीषन्तौ । अंशुशब्दः प्रा. तिपदिकस्वरेणान्तोदात्तः ततो मतुप् । इस्वनुभ्यां मतुबिति मतुबकार उदात्तः । बृहन्महतोनघजाद्युदात्तत्व उपसंख्यानात् बृहतीशब्दो ऽन्तोदात्तः । बहुलग्रहणान्नेह । पाटला. नि पुष्पाणि । साल्वानि मूलानि । बाहुलकादेव कचिल्लुक् लुपोऽभावश्च । कदम्बं पुष्षम् । अशोकम् । करवीरम् । एते लघावन्त इति मध्योदात्ताः। अनुदात्तादिलक्षणस्यानो लुक् । वैल्वानि । बिल्वाधण् । इह न लुप्लुको । हरीतक्यादिभ्यश्च ॥ ३०९ ॥ एभ्यः फलप्रत्ययस्य लुप् स्यात् । अत्र लिङ्गं युक्तवत् । वचनं तु विशेष्यवदेव । हरीतक्यादिषु व्यक्तिरित्युक्तत्वात् । हरीतक्याः फलं हरीतकी । कोशातकी । इह द्राक्षाप्रभृतिभ्यो मयटो लुप् । अनुदात्तादिभ्योऽत्रः । इतरेभ्यस्त्वणः । कंसीयपरशव्ययोर्यत्रो लुक् च ॥ ३१ ॥ कंसीयपरशव्यशब्दाभ्यां विकारेऽर्थे यथासंख्यं यत्रो स्तः छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । परान् शृणाति परशुः तस्मै हितं उगवादिभ्यो यत् । परशव्यं दारु । तस्य विकारः पारशवः । परशव्यस्यानुदाचादित्वादारी सिद्ध लुगर्थे वच. नम् । ननु यस्योतिलोपे कते इलस्तद्धितस्येति यलोपेन सिदम् । मैवम् । ईतीत्यनुवृचेः । अन्यार्थतया कृतात् प्रा.

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242