Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 277
________________ ७८. त्रिभाषासूत्रं संस्कृतं च (शिक्षाक्रमे संस्कृतस्य स्थानम् ) त्रिभाषासूत्रम्-भारतीयसर्वकारस्यादेशमनुसृत्य कैश्चिद्विपश्चिद्भिः त्रिभाषासूत्रं समर्थितम् । भारतसर्वकारेणापि समर्थितमनुमोदितं च तत् त्रिभाषासूत्रं भारतवर्षस्य सर्वेषु प्रान्तेषु प्रवर्तितम् । त्रिभाषासूत्रस्य ( Three language formula ) किन्निमित्तं, कोऽत्र हेतुः, किमस्य प्रयोजनश्च । भारतवर्षे शिक्षाक्रमे भाषाणां पौर्वापर्यम्, उच्चावचत्वं, न्यूनाधिकत्वश्चाश्रित्य विविधाः विवादाः प्रादुरभवन् । तद्विवादशान्तये समरूपताऽऽकलनाय च त्रिभाषासूत्रस्य जनिरभूत् । त्रिभाषासूत्रप्रवर्तकानामभिमतमेतद् यत् शिक्षाक्रमे भाषाणां तथा समन्वयः, सङ्कलनञ्च स्याद् यथा राष्ट्रहितसम्पादनेन सममेव अध्येतृणां वैज्ञानिकी, भौतिकी चोन्नतिः सञ्जायेत । एतद् विमृश्य राष्ट्रभाषारूपेण आर्यभाषाया हिन्दीभाषाया वा प्रथम स्थानं निर्दिश्यते । एवं हिन्दीभाषा सर्वोत्कृष्टत्वमाश्रयते । अन्ताराष्ट्रियज्ञानोपादानार्थं वैदेशिक्याः कस्याश्चन भाषाया अनिवार्यरूपेणाध्ययनमन्वभूयत । तत्राङ्ग्लभाषाया अन्ताराष्ट्रियख्यातिमुद्दिश्य पराधीनताकालिकी च तत्प्रसृतिमाश्रित्य द्वितीयाऽनिवार्यभाषारूपेणाङ्ग्लभाषा समर्थिता । सन्ति भारते विविधाः प्रादेशिका भाषाः, यासां साहित्यमपि प्रचुरं, प्रशस्तं, हृद्यं, लोकपयोगि, ज्ञानविज्ञानवर्धकञ्च । सर्वेषां भारतीयानां प्रादेशिकभाषाज्ञानमपि नितरामनिवार्यम्, अनुदिनं तत्प्रयोगोपपत्तेः । एवं प्रान्तीया भाषाः तृतीयं स्थानमलभन्त । अत्र राष्ट्रभाषा-अन्ताराष्ट्रियभाषा-प्रान्तीयभाषाणां समाहारः समन्वयश्च अभीष्यते । त्रिभाषासूत्रे संस्कृतम्--त्रिभाषासूत्रं सूक्ष्मेक्षिकया परीक्ष्यते विविच्यते चेत् संस्कृतभाषा भर्तृविरहिता नारीव, पुत्रादिपरित्यक्ता मातेव, निर्वसना, अवधूता, अवहेलितेव संदृश्यते। न भारतीयानामध्येतृणां तादृशं श्रमाभिमुखत्वं, विविधभाषाज्ञानाभिरुचित्वञ्च, येन भाषात्रयाध्ययनानन्तरं तुरीयभाषाध्ययनं सम्भाव्येत । यद्यपि विदेशेषु सन्ति तादृशाः प्रदेशाः जर्मनी-फ्रांसस्विटजरलैण्डप्रभृतयः यत्र भाषात्रयं भाषाचतुष्टयं वा सामान्यजनैरपि अधीयते, शिक्ष्यते, व्यवह्रियते च । परं न भारते वर्षे तादृशी भाषा-जिज्ञासा, अभिरुचिश्च । अतः कृतेऽपि प्रयत्ने भारते चतुर्थभाषाध्ययनं सर्वथोपेक्ष्यते । येषां प्रदेशानां न प्रान्तीया भाषा हिन्दी-भाषा, ते स्वप्रान्तीयभाषाध्ययने प्रवर्तन्ते । अन्ताराष्टियभाषारूपेण सत्यपि जर्मन-फ्रेंच-रूसी-भाषाणां सङ्ग्रहे आङ्ग्लभाषैवसर्वकारस्याभिप्रेता, समथिता, प्रचारिता च । राष्ट्रभाषारूपेण हिन्दीभाषाध्ययनं तेषां कृते अनिवार्यम् । एवम् अहिन्दीभाषिषु प्रान्तेषु संस्कृतस्य शिक्षाक्रमे स्यापनमध्यापनश्च दुष्करमिव प्रतीयते । हिन्दीभाषिषु प्रदेशेषु राष्ट्रभाषा हिन्दी

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350