Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 332
________________ सर्वे गुणाः काञ्चनमाश्रयन्ते बुभुक्षितव्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते। . न छन्दसा केनचिदुद्धृतं कुलं, हिरण्यमेवार्जय निष्फला गुणाः॥ · द्रविणमेव चतुर्वर्गसाधनम् । द्रविणेनैव यज्ञादिकाः क्रियाः, दक्षिणादानादिरूपो धर्मश्च प्रवर्तन्ते । कामो भौतिकविषयावाप्तिश्च वित्तमन्तरेण गगनकुसुममिवावगन्तव्यम् । मोक्षार्थं जीवननिर्वाहार्थं च वित्तस्य भूयस्यावश्यकता । लोके सर्वाः क्रिया अर्थमूला एव । धनैरेव कुलीनत्वम्, विपद्विघातः, लोकप्रियत्वम्, साहाय्यावाप्तिश्च । अतएवोच्यते धनिष्कुलीनाः कुलीना भवन्ति, धनरापदं मानवा निस्तरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके, धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ नीतिसार० ३ हिरण्यमेवार्जय०-लोके विलोक्यते यद् हिरण्यमेव सर्वासां विद्यानां लक्ष्यम् । धनमेव सर्वं मनोरथं पूरयति । धनेनैव लौकिकोऽभ्युदयः, लोकप्रियत्वम्, नेतृत्वम्, धनाढयत्वम्, निर्वाचनेषु विजयावाप्तिः, मन्त्रित्वादिपदलाभश्च संजायते । उक्तं च यस्यास्तिस्य मित्राणि, यस्यास्तस्य बान्धवाः । यस्यार्थाः स पुमाललोके, यस्यार्थाः स च पण्डितः॥ पंच० १-३ धनसंपन्नस्यैव सर्वे गुणा याचकैः स्तूयन्ते । प्रतिपलं प्रतिपदं तद्गुणान् गायन्तः प्रचुरं पुरस्कारं स्तुतिपाठका विन्दन्ति । स एव कुलीनः, पण्डितः, गुणवान्, सुरूपश्चेति स्तुतिपटुभिरजस्रं प्रशस्यते । उक्तं च यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः। स एव वक्ता स च दर्शनीयः, सर्वे गणाः काञ्चनमाश्रयन्ते ॥ नीति० ४१ वित्तस्यैवैतद् माहात्म्यं यद् धनिनः सर्वमपि दोषजातं प्रच्छाद्यते । तस्य दुर्गुणगणमपि सद्गुणत्वेन प्रस्तूयते । तस्य पापाचरणान्यपि पुण्यत्वेनोपस्थाप्यन्ते । तस्य नैघृण्यं कारुण्यरूपेण प्रतिपाद्यते । तस्य गहितत्वं वन्द्यत्वेन कीय॑ते । न केवलमेतदेव, तस्य विद्यानुरागित्वं कलाप्रियत्वम् उदारत्वं दातृत्वं शिल्पज्ञत्वं धैर्य स्थैर्य च शतगुणं सहस्रगुणं वा विधायोद्गीर्यते प्रशस्यतेऽभिनन्द्यते च याचकैः । अत उच्यते पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ पंच० १-७ न सा विद्या न तद् दानं न तच्छिल्पं न सा कला। न तत् स्थैर्य हि धनिनां याचकर्यन्न गीयते ॥ पंच०१-४

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350