Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
३२४
संस्कृतनिबन्धशतकम्
रोतिर्वा, नीतिर्वा, विधिर्वा, पद्धतिर्वा, सभ्यता वा, संस्कृतिर्वा, काव्यं वा, शास्त्रं वा, सर्वत्रैव नूतनत्वस्य साम्राज्यं लक्ष्यते । अतएव महाकविना माघेन साह्लादम् उद्घोष्यते यत्
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः । शिशु० ४-१७ भगवता कृष्णेन प्रतिपाद्यते यद् - ' वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि' ( गीता २ - २२ ) तद्वत् पुरातनं परित्यज्यते, नूतनं चाधीयते इति निसर्गक्रमः । एतदाश्रित्यैव शिशुषु नूना स्फूर्तिः, रमणीषु नूतनं लावण्यम्, पुष्पेषु नूतनं सौरभम् साहित्ये नूतनाभिव्यञ्जनाशक्तिः, संस्कृती नूतनो विधिश्च परिलक्ष्यते । नूतनत्वं विकासस्य प्रगतेश्च मूलम् इति सर्वत्रैव नूतनत्वम् आद्रियते । नूतनं च प्राचीनमूलम् इति प्राचीनमपि न सर्वथाऽवमन्तव्यम् | ‘गुणगृह्या वचने विपश्चितः ' ( किराता० २-५ ), सदसद्व्यक्तिहेतवश्च सन्तः पुरातन - नूतनयोरुभयोरपि सारं संगृह्य प्राचीननूतनयोः समन्वयमेवाश्रयन्ते आद्रियन्ते च ।

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350