Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
पुराणमित्येव न साधु सर्वम्
३२३ यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि, नो इतराणि । तैत्ति० १-११-२
नवीनस्योपादेयत्वम्-महाकविना कालिदासेन न केवलं काव्यविषये एव, अपि तु सर्वमपि विषयमधिकृत्य क्रान्तिकारि वचनमेतत् प्रस्तूयते यद् न प्राचीनमेव सर्वोत्कृष्टम्, न च नव्यमिति परिहेयम् । सन्तः साधु परीक्ष्यैव ग्राह्य गृह्णन्ति, हेयं च परिजहति । काव्ये शास्त्रे समाजे नीतौ रीतौ च सर्वत्रैव विधिरेष पालनीयः । उक्तं च
पुराणमित्येव न साधु सर्वं न चापि किचिन्नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद् भजन्ते, मूढः परप्रत्ययनेय-बुद्धिः ॥
मालविकाग्निमित्र १-२
यदि कालिदासस्य कथनमेतद् विकासवाददृष्ट्या परीक्ष्यते चेत् तर्हि सुतरामेतद् आपद्यते यद् जगति प्रतिपदं प्रतिक्षणं च विकासः प्रवर्तते । नहि लोकस्य जीवनस्य च किंचित् तत्त्वं यत्र विकासप्रक्रिया नोपलभ्येत । विकासप्रक्रियाश्रयणे तु सर्वत्रैव विकासो मन्यते । रीति-नीति-शिक्षा-वेष-भूषादिविषयेषु विकासक्रमो न केनापि संरोर्बु पार्यते । विज्ञान-समुदयाच्च विश्वस्यैवैकत्वं संजायते । सर्वाः सभ्यताः, सर्वाः संस्कृतयश्च किंचित् स्वीयं वैशिष्टयं धारयन्ति । तत्र यदेव श्रेयस्करं महत्त्वपूर्ण विशिष्टम् अपरिहार्य वाऽवलोक्येत, ततस्तदेवोपादेयम् । एवंविधदृष्टेराश्रयणेन वैज्ञानिकाविष्काराणामपि लाभाः साधूपभोक्तुं सम्यगुपयोक्तुं च पार्यन्ते । संस्कृत्यादिविषयेषु आचारसंवलिता, आस्तिक्य-समवेता, धर्ममूला च प्राचीन-संस्कृतिरपि जीवने न सर्वथा परिहार्यत्वं भजते । अन्यविषयेषु, प्राधान्येन संस्कृति-विषये, समन्वयवादः, सामञ्जस्यप्रक्रिया च श्रेयसे इति सुकरं वक्तम् ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः-अहर्निशम् अवलोक्यते यत् सर्वेषु वृक्षेषु प्रत्यहं नूतनानि पुष्पाणि, नूतनानि फलानि, नूतनानि च किसलयानि प्रादुर्भवन्ति । सूर्यस्य रश्मिषु प्रत्यहं नूतनं ज्योतिर्नत्ना प्रभा नव्या प्रगतिश्च, सुधांशोः किरणेषु नूतना सुधा नूतनम् आह्लादनं च, पतत्रिणां रवेषु नूतनः कलरवः, प्रकृतौ प्रत्यहं प्रतिक्षणं च नूतनत्वं संप्रेक्ष्यते । जीवनेऽनुदिनं नवा स्फूर्तिः, नव उत्साहः, नवा प्रगतिरुद्गतिश्च निरीक्ष्यते । एवमनवरतं प्रतिपलं प्रतिपदं च नूतनत्वं दृश्यते । नित्य-नूतनत्वमेव प्रकृतेर्विकासस्य च मूलम् । बाले वा, शिशौ वा, तरुणेषु, तरुणीषु च नित्य-नूतनत्वं विकास-प्रक्रियामेवोद्घोषयति । काव्ये शास्त्रे लोके चैतन्नूतनत्वमेव रमणीयताम् आपादयति ।

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350