Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 338
________________ न निश्चितार्थाद् विरमन्ति धीराः ३२१ मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् — सुखं वा स्याद् दुःखं वा, लाभोऽलाभो वा, हर्षः शोको वा, मनस्विनः स्वेष्टकर्मपथान्न विरमन्ति । तेषां कृते प्राणपरित्यागः सुकरो न च प्रतिज्ञाभङ्गः, शूलावारोहणं हर्षप्रदं न च लक्ष्यस्यासिद्धिः। को न जानाति भारतीयानां क्रान्तिधौरेयाणां सुभाषचन्द्रवसुभगतसिंह चन्द्रशेखर आजाद प्रभृतीनां गौरवाधायकम् अदृष्टपूर्वम् अद्भुतं च साहसिकं कर्म । तेषां त्यागेन तपोबलेन च भारतस्य स्वातन्त्र्य - प्राप्तिः कस्य न मुदम् आवहति । अतएवोच्यते - 'साहसे श्रीवंसति' । तादृशा एव सन्तः सुखमथं कीर्ति चानभिलष्य स्वप्रतिज्ञामनुसरन्तो दुष्करं कर्मारभन्ते, तत्र साफल्यं चाश्नुवते । तेषां कृते समग्राऽपि वसुमती प्राङ्गणमेव, सुमेरुर्वल्मीकसंकाशः, सागरोऽपि कुल्यायते, पातालं च स्थलायते । नहि तेषां कृते किंचिद् दुष्करम् असाध्यं वा । अर्थः सुखं कीतिरपीह मा भूद् अनर्थ एवास्तु तथापि धोराः । निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ शार्ङ्ग ० प० ५ अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ सुभा० रत्न० पृ० ७७ यथा पावकस्योर्ध्वज्वलनं नहि केनापि वारयितुं शक्यं तथैव दृढनिश्चयस्य धीरस्यापि निश्चयो न ध्वस्यते, नावसीयते । कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्टुम् । अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव ।। नीति० १०५ मनस्विनां दृढनिश्चयं सर्वस्वत्यागं सर्वविधदुःखसहिष्णुत्वं प्रतिज्ञापूर्ति - प्रवणत्वं च स्मारं स्मारं सूक्तं भर्तृहरिणां २१ क्वचित् पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350