Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
३२०
संस्कृतनिबन्धशतकम्
विरम विरमायासादस्माद् दुरध्यवसायतो विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे । अयि जड विधे कल्पापायव्यपेत-निजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः ॥ भर्तृ० सं० ३२७
न्याय्याद् पथः प्रविचलन्ति पदं न धीराः - धीरा वीरा मनस्विनश्च यदेव प्रतिजानते, तदेव जीवनार्पणेनापि संपोषयन्ति पूरयन्ति च । दन्तिनां दन्ता इव तेषां वचनानि प्रतिज्ञाश्च न प्रतिनिवर्तन्ते । साधूक्तं पण्डितराजेन __जगन्नाथेन—
विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ अन्योक्तिवि० ६३
दाशरथी रामः स्ववचनपरिपालनार्थं वह्निप्रवेशं समुद्रनिपातं विषपान - मपि च स्वीकर्तुम् आत्मानं प्रास्तीत् । 'रामो द्विर्नाभिभाषते' इति न कस्य लोकस्य विदितम् । रामः कैकेयीम् अभ्यदधात्—
अहं हि वचनाद् राज्ञः पतेयमपि पावके ॥ १८-२८ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥ १८-२९ तद् ब्रूहि वचनं देवि ! राज्ञो यदभिकाङ्क्षितम् ।
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ रामा० अयो० १८-३०
पार्वती शिवप्राप्तिमुद्दिश्य महत्तपस्तेपे । तस्या माता मेनापि तां दृढनिश्चयाद् वारयितुं नाशकत् । स्वनिश्चयेनैव सा त्रिपुरारि प्राप । अतएव कालिदासेनाभिधीयते -
क ईप्सितार्थस्थिरनिश्चयं मनः,
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कुमार० ५-५
धीराः स्तुतिनिन्दां परिहृत्य, लोभमोहम् अवहत्य, जीवनमृत्युं चावमत्य न्यायोचितामेव सरणिमाश्रयन्ते । तत्रभवतो रामचन्द्रस्य, भगवतः कृष्णस्य, महात्मनो बुद्धस्य, महर्षेर्दयानन्दस्य, महात्मनो गान्धेः, सुभाषचन्द्रवसोश्च नामानि सादरम् अत्रोल्लेखितुं शक्यन्ते यैः प्राणार्पणेनापि न न्यायोचिता सरणिः समुज्झिता, स्वीया प्रतिज्ञा च पूरिता । अत एवोच्यते
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु या यथेष्टम् ।
अद्यव वा मरणमस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ भर्तृ० नीति० ८४

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350