Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
१००. पुराणमित्येव न साधु सर्वम् (क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीतायाः।)
पुरातनस्य प्रयोजनम्-लोकेऽस्मिन् निरीक्ष्यते यद् द्विविधा प्रवृत्तिर्मानवानाम् । केचन प्राचीनपद्धतिप्रिया अपरे च नूतनपद्धतिप्रियाः । समाजो वा, राष्ट्रं वा, काव्यं वा, दर्शनं वा, साहित्यं वा, कलाकौशलं वा, रीतिर्वा, नीतिर्वा, वेषो वा, भूषा वा, रुचिर्वा, गतिर्वा, सर्वत्रापि वृत्तिवैषम्यं प्रेक्ष्यते, विचारभेदोऽवलोक्यते, प्रवृत्तिवैविध्यं च निरीक्ष्यते । प्राचीनपरम्परावादिनः सर्वेष्वपि विषयेषु पुरातनमेव प्रशंसन्ति, नवीनं चावमन्यन्ते । नव्यास्तु नव्यामेव सरणि साधीयसी मन्वते । एतादृशायां विप्रतिपत्तौ का नु सरणिः श्रेयसी इति विपश्चितां विवेचनम् अर्हति । विचारदृशा विविच्यते चेत् तर्हि निश्चप्रचमेतत् शक्यं वक्तुं यत् पुरातनं वा नूतनं वा नोकं साकल्येन साधु असाधु वा । पुरातनेऽपि किंचिद् ग्राह्यम्, नूतनेऽपि च तथैव किंचिद् ग्राह्यम् । उभयत्रापि किंचित् श्रेयस्करं सुखावहं लोकोपकारि च । तत्र मरालवृत्तेराश्रयणमेव श्रेयस्करम् अवगम्यते । साधूच्यते महाकविना कालिदासेन यद् हंसः क्षीरम् आदत्ते, तन्मिश्रा अपश्च जहाति । तथैव यस्यां कस्यामपि पद्धतौ यद्यत् श्रेयस्करं स्यात् तत्तदादेयम् । यच्च तत्राश्रेयस्करं तत् परिहेयम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः । शाकु० ६-२८
विषयेऽस्मिन् भगवता मनुनाऽपि नीरक्षीरविवेक-पद्धतिरेव श्रेयस्करत्वेन समर्थ्यते । अतएव तेनादिश्यते यद् विषादप्यमृतम् आदेयम् । सुभाषितानि सद्वत्तानि विविधानि च शिल्पादीनि यत एव प्राप्यन्ते, तत एव आदेयानि । उक्तं च
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सवृत्तम् अमेध्यादपि काञ्चनम् ॥ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः॥ मनु० २-२३९, २४०
पुरातन-नूतनयोविवादे मनोर्मतं समीचीनतमं प्रतीयते । एवं प्राचीनपरम्परायां प्राचीनपद्धतौ च यद्यत् श्रेयस्करम्, तत्तद् यत्नतो ग्राह्यम्, अन्यच्च परिहेयम् । एतादृश्येव प्राचीना परम्परा । अतएव तैत्तिरीयोपनिषदि कर्मविप्रतिपत्तिमाश्रित्य निर्दिश्यते यत्

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350