Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
३१८
संस्कृतनिबन्धशतकम्
धैर्यस्याश्रयणेन लाभाः-प्रतिदिनं संलक्ष्यते यद् भानुस्ताम्र एवोदेति, ताम्र एव चास्तमेति, तथैव धीरा वीराश्च संपत्तौ विपत्तौ च समत्वं भजन्ते । उक्तं च
संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तश्वास्तमये तथा ॥ पंचतन्त्र० २-७ गीतायामपि एतदेव प्रतिपाद्यते यद् हर्षशोकयोः समत्वबुद्धिरेव सर्वदुःखविनाशिका । यो न हृष्यति न च द्वेष्टि स एव प्रभुप्रियः ।
यो न हृष्यति न द्वेष्टि न शोचति न काइ क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ गीता १२-१७
अतएव सम्पदि हर्षाभावो विपदि विषादाभावो महात्मनां लक्षणं गण्यते । महाकविना कालिदासेनापि एतदेव समर्थ्यते यद् विषमायां परिस्थिती यो न मुह्यति, किंकर्तव्यविमूढतां च न भजते स एव धीरः । उक्तं च
संपदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ हितो० १-३२ विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः। कुमारसंभव
धैर्य हि मानवस्य नैसर्गिको धर्मः। यत्र धैर्य न तत्रावसादो विषादोऽधीरत्वं वा। नाग्निशिखाऽधःकृताऽपि अधोमुखत्वं भजते । 'प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः' ( शिशु० १-२) । उक्तं च. कर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमाष्टम् । अधोमुखस्यापि कृतस्य वह्नधिः शिखा याति कदाचिदेव ॥ हितो० २-६९
धैर्य गुणोत्कर्षाय-लोके धोरा एव विजयं लभन्ते, वसुधां विजयन्ते च । धीरा एव जना विश्वस्य साम्राज्यं स्वीकुर्वते, धीरा एव जगतः प्रकाशस्तम्भाः। धीरैरेव धार्यते धरित्री। धीरैरेव राष्ट्र श्री-वृद्धिौरवावाप्तिश्च । नहि धीराणां कृते किंचिद् असाध्यम् । धीरास्तु असाध्यमपि साध्यम्, दुर्लभमपि सुलभम्, दुर्जयमपि सुजयम्, दुष्करमपि सुकरं विदधति । धीराणां कृते जलधिः कुल्यायते, पातालं स्थलीयते, सुमेरुश्च वल्मीकायते ।
अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ सुभाषितावलि २२७०
परेशोऽपि धीराणां धैर्यध्वसं विधातं न क्षमः । कामं गिरयश्चलन्तु, परं धीराणां मनो निश्चलं सुस्थिरं च ।
चलन्ति गिरयः कामं युगान्तपवनाहताः। कृच्छेऽपि न चलत्येव धीराणां निश्चलं मनः ॥ सु० रत्न०, पृ० ७७ .

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350