Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 336
________________ ९९. न निश्चितार्थाद् विरमन्ति धीराः (१. न्याय्यात् पथः प्रविचलन्ति पदं न धीराः; २. साहसे श्रीर्वसति; ३. मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम् ।) धैर्य हि महतां धनम्--किं नाम धीरत्वेनाभिलष्यते ? संप्राप्ते विषमे काले, समुपस्थितायां कठिनपरिस्थिती, समागते च संकटे यो न मुह्यति, न विवेकं जहाति, न धैर्यावसादं भजते, न किंकर्तव्यविमूढत्वम् आश्रयते, न च कर्तव्यपथात् प्रच्यवते, स धीरः । अस्मिन् सुख-दुःखात्मके, हर्षशोकसमवेते, संपद्विपत्परीते, त्रिभुवने धीरा एव मानवानां प्रकाशस्तम्भाः, प्रेष्ठाः पथिप्रदर्शकाः, कर्तव्योद्बोधकाश्च । धीरैरेव जगदिदम् उन्नीयते, उध्रियते, पाल्यते, संवर्ध्यते च । धीरा एव राष्ट्रहितचिन्तकाः, आत्मोत्सर्गप्रवणाः, मानकधना:, बलिदानभावना-संजुष्ट-स्वान्ताश्च लक्ष्यन्ते । यदेव कार्य ते प्रारभन्तेराष्ट्रहितम्, स्वराष्ट्ररक्षा, विश्वहितम्, समाजसुधारः, देशोन्नतिर्वा, तत् परिसमाप्यैव ते विश्रान्ति लभन्ते । न निश्चितार्थाद् विरमन्ति धीराः--स्वप्रतिज्ञापूर्तये, स्वलक्ष्यावाप्तये, स्वोद्देश्यसिद्धयै च ते भय-संत्रास-विपत्पातादि-विघ्नपारावारम् उत्तरन्ति, स्वेष्टसिद्धिं च समासादयन्ति । सुधाप्राप्तिरासीद् देवानां लक्ष्यम् । ते रत्नलाभेन न तुष्टाः, न विषमविषेण भीतिम् आप्ताः, अमृतम् अवाप्यैव ते विरेमुः । रत्नैर्महालै स्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । . सुधां विना न प्रयविरामं न निश्चितार्थाद विरमन्ति धीराः॥ भर्तृ० नीति० ८१ धीरा न कान्ता-कटाक्ष-शराहता भवन्ति । न च तेषां चेतःसु क्रोधादयो दोषाः प्रविशन्ति । लोभो विषयाभिलाषश्च न तान् अपहरति । तथाविधा एव धीरा लोकत्रये विजयिनो महामनसश्च संजायन्ते । कान्ता-कटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्वहति कोपकृशानुतापः। कर्षन्ति भूरिविषयाश्च न लोभपाशै र्लोकत्रयं जयति कृत्स्नमिदं स धीरः॥ भर्तृ० नीति० १०६ धीराणां लक्ष्यसिद्धिपराणां धैर्यध्वंसं विधिरपि न विधातुं प्रभवति । ते धैर्याश्रयणे गिरिभ्यो जलनिधेश्चापि गरीयसः । यावज्जीवं तेषां धैर्यध्वंसो न लक्ष्यते, न च संभाव्यते । 'कार्य वा साधयेयं शरीरं वा पातयेयम्' इति तेषां प्रतिज्ञामन्त्रः । उक्तं च

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350