Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
९८. त्याज्यं न धैर्यं विधुरेऽपि काले
धेर्यस्यावश्यकता - सुखदुःखात्मकं जगत् । 'चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च' । सुखे हर्षानुभूतिः, दुःखोदये ग्लानिर्विषादश्च समेषामेव मानवानां सामान्येन संलक्ष्यते । परं विपदि धैर्यावसादो हीनवृत्तित्वं विषादः - क्लैब्यं किंकर्तव्यताविमूढत्वं वा न धीरोचितम् । को न जानाति जगदिदं दुःखाधिव्याधिपरीतम्, सन्तापानलसंतप्तम्, दुःखाब्धिपरिवेष्टितम्, व्यसनौघसंकुलं च । तत्र नात्मावसादः श्रेयस्करः । विपदि धैर्याश्रयेणैव कार्यं सिध्यति, ज्योतिरुदेति, प्रकाशः संचरति, मोहान्धतमसं च व्यपैति । नहि श्रीरामचन्द्रो महतीं दशाननचमूं प्रेक्ष्य धैर्यं तत्याज । नहि महात्मा गांधिः आंग्लशासकबलम् अवलोक्य धैर्यं जहौ । नहि महर्षि दयानन्दः परोपतापेन स्वचिकीर्षितम् अहासीत् । सर्वैरेवैतैर्मानधनैः धैर्यमवष्टभ्य विजयश्रीः समासादिता । समुद्रे पोतभङ्गे सति नाविको बाहुभ्यामेव सागरं तितीर्षति । वीरसावरकरस्तु सत्यमेव जलधिम् अतरत् । सर्वमेतद् धैर्याश्रयणस्यैव वैभवम् ।
1
त्याज्यं न धैर्यं विधुरेऽपि काले, धैर्यात् कदाचिद् गतिमाप्नुयात् सः । या समुद्रेऽपि हि पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥ पञ्च० २ २१६धैर्यस्य महत्त्वम् - धीरैरेव जगदिदं जितम् । तत्राधमा जना विपत्पाताकलनात् कार्यमेव नारभन्ते, मध्यमाः प्रारब्धमपि कार्यं विघ्नौघपातसंत्रस्ता मध्येमागं विजहति कार्यम्, धीरास्तु विघ्नशतसन्तप्ता अपि न लक्ष्य परिजहति ।
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नः सहस्त्र गुणितेरपि हन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥
अतएव धर्मलक्षणे 'धृतिः क्षमा दमोऽस्तेयम् ० ' ( मनु० ६- ९२ ) - धृतेर्नाम सर्वप्रथमं गण्यते । न यत्र धृतिर्न तत्र धर्मावस्थानमपि । महात्मनो लक्षणेऽपि विपदि धैर्याश्रयणं सर्वप्रथमो गुण उच्यते ।
विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ हितोप० १-३१ धैर्यावष्टम्भेनैव विपत्पयोधिरुत्तीर्यते, आत्माव सादोऽवरोध्यते, सन्तापततिश्च निरोध्यते । धैर्येणैव साहसं श्रीविवेकश्च समुपतिष्ठन्ते । समुपस्थितायां तु विपत्ती धैर्यमाश्रित्य तत्प्रतीकारोपायश्चिन्तनीयः । उक्तं च- 'आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम्' ।
I

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350