Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 333
________________ ३१६ संस्कृतनिबन्धशतकम् निर्धनता सर्वापदामास्पदम्-निर्धनत्वं सर्वासामेव विपदां निधानम् । नहि धनहीन आत्मत्राणे कलत्रत्राणे पुत्रत्राणे कुलपरिरक्षणे वा प्रभवति । स समाजे क्षीराद् उत्क्षिप्ता निष्कासिता वा मक्षिकेव बहिष्क्रियते । न तस्य कुले समाजे राष्ट्रे च प्रतिष्ठा समादरो वा । धनाभावेनैव ह्रीमत्त्वं सत्त्वभ्रंशः परिभवो निर्वेदः शोको बुद्धिनाशश्चेत्यादयो दोषाः प्रादुर्भवन्ति । सततं चिन्ताकुल• त्वम्, अजस्रम् अवमानः, सुहृदां घृणादृष्टिः, ज्ञातीनां विवादाश्रयणम्, अनवरतशोकाग्निप्रदाहश्चेति निर्धनताजन्य-दोषाः । साधूच्यते दारिद्रयाद् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते। निविण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ मृच्छ० १-१४ निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजन-जनविद्वेषकरणम् । वनं गन्तं बुद्धिर्भवति च कलत्रात परिभवो हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥ मृच्छ० १-१५ धनाभावस्तथा मानवं पीडयति यथा नारातिरपि । न कश्चिदेनं भाषते, न स क्वचिदाद्रियते, समाजे च स सर्वथा तिरस्क्रियते, बहिष्क्रियते च । एतस्माद् धनार्जनं जीवनस्य परमं कर्तव्यम् । उक्तं च संगं नैव हि कश्चिदस्य कुरुते संभाषते नादरात संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ मृच्छ० १-३७ .

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350