Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 331
________________ ९७. सर्वे गुणाः काञ्चनमाश्रयन्ते ( १. हिरण्यमेवार्जय निष्फला गुणाः; २. धनान्यर्जयध्वं धनान्यर्जयध्वम् ।) कि धनेन साध्यम् ?-लोके सर्वो लोक: सुखं लिप्सते, शान्तिम् ईप्सति च । सुखं शान्तिश्च कथमिव शक्यं समासादयितुम् ? सुखस्य मूलम् अर्थः । यत्र यत्र धनवृद्धिरर्थवैभवं च तत्रैव सुख-साम्राज्यमपि व्याप्नोति । 'सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः' । जीवने पुरुषार्थचतुष्टयमपि धनेनैव प्रवर्तते । धनं प्राणिनां जीवनम्, सर्वस्वम्, सर्वार्थसाधकं च । धनाद् ऋते न धर्मः, न कामः, न च मोक्षश्च प्राप्यते । लोके दशं दर्श धनस्य माहात्म्यं बालो वा, वृद्धो वा, नरो वा, नारी वा, यतिर्वा, नपतिर्वा, सर्वेऽपि धनावाप्तिकामाः संलक्ष्यन्ते । धनं हि जिजीविषोर्मर्त्यस्यापरे प्राणाः । यावज्जीवं न धनाशा मानवं परिजिहीर्षति, न विजहाति च । अतएवोच्यते-- धनाशा जीविताशा च गुरू प्राणभृतां सदा । हितो० १-११३ बलं शक्तिः समृद्धिर्गुणार्जनं समादरो ज्ञानविज्ञानावाप्तिश्च सर्वमपि वित्तेनैव सिध्यति । राज्ञामपि प्रभुत्वस्य मूलं धनमेवावगन्तव्यम् । धनेन बलवांल्लोके धनाद् भवति पण्डितः। हितो० १-२३ धनवान् बलवांल्लोके सर्वः सर्वत्र सर्वदा। प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ॥ हितो० १-१२२ नास्ति यत्र धनं वैभवं वा, तत्र सर्वेऽपि मनोरथाः, सर्वा अपि योजनाः, सर्वविधापि महत्त्वाकांक्षा क्षयं यान्ति, यथा ग्रीष्मे स्वल्पजला नद्यः । अर्थेन तु विहोनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ हितो० १-१२४ धनान्यर्जयध्वम्-वेदेष्वपि धनोपार्जनस्य धनस्वामित्वस्य चादेशो लभ्यते-- वयं स्याम पतयो रयीणाम्। ऋग्० १०-१२१-१०, यजु० १०-२०, अथर्व० ७-७९-४ धनेनैव महत्त्वाकाङ्क्षा पूर्यते, अभीप्सितम् आप्यते, मनोरथो लभ्यते । धनमेव सर्वविधां मनःकामनां पूरयति । यत्र धनाभावस्तत्र सर्वासामपि विद्यानाम्, सर्वेषामपि गुणानां च निष्फलत्वं दरीदृश्यते । नहि क्षुधातुरेण व्याकरणं भुज्यते, पिपासाकुलेन वा काव्यरस आस्वाद्यते, न च छन्दोभिः कुलोद्धारः संभाव्यते, अतो धनार्जने मनो देयम् ।

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350