Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 329
________________ ३१२ संस्कृतनिबन्धशतकम् ___ सत्संगतेमहत्त्वं प्रतिपाद्यते यत् कीटोऽपि पुष्पसंसर्गमवाप्य सतां शिर:सु निधीयते । सद्भिः प्रतिष्ठापितः पाषाणोऽपि देवत्वेनाभिवन्द्यते । लोकेऽवलोक्यते यत् काचोऽपि काञ्चन-संसर्गमुपलभ्य मारकती द्युति धत्ते । उदयगिरेः सर्वमपि द्रव्यजातं भानुसंनिकर्षमासाद्य सुषमां दधाति । एवमेव सतां सांनिध्यम् उपलभ्य हीनवर्णोऽपि कान्ति धत्ते, अविद्यान्धतमसपिहितलोचनोऽपि विद्याप्रभाभासुरताम् आश्रयते, दुरितव्यवाय-पुरःसरं सद्गुण-सुधाधरत्वं प्रतिपद्यते । उक्तं च काचः काञ्चनसंसर्गाद् धत्ते मारकती द्युतिम् । तथा सत्संनिधानेन मूर्यो याति प्रवीणताम् ॥ हितो० प्र० ४१ कीटोऽपि सुमनःसंगाद् आरोहति सतां शिरः। अश्मापि याति देवत्वं महद्धिः सुप्रतिष्ठितः ॥ हितो० प्र० ४५ सत्संगतरुपयोगित्वम्-सत्संगतिरेवासाध्यमपि साध्यं साधयति । सत्संगत्यैव क्षुद्रा अपि पर्वतापगा महानदो-संपर्कमुपेत्य जलनिधिं विन्दन्ति । उच्यते च माघेन बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा॥ शिशु० २-१०० सतां संगः सर्वपापविनाशनाद् दुरित-व्यवच्छेदाच्च भेषजमिव पापानि शमयति, नैरोग्यप्रवर्तनेन चेतः प्रसादयति, सद्भावाविर्भावेन मानसं विमलीकरोति, पुण्यततिसंचारेण कल्पवृक्ष इव मङ्गलराशिं प्रथयति, दुर्गुणान् दमयते, सद्गुणान् समेधयति च । अतएवोच्यते संगः सतां किमु न मङ्गलमातनोति । संगस्य रागात्मकत्वाद् बन्धनहेतुत्वं प्रतिपाद्यते । अतएव सर्वविधः संगो हेयत्वेन परिगण्यते । सुधीभिरनुमोद्यते यत् संगः सर्वथा हेयः । परं यदि हातुं न शक्यते तहि सज्जनानामेव संगतिराश्रयणीया । अतएवोच्यते संगः सर्वात्मना त्याज्यः स चेत् त्यक्तं न शक्यते । स सद्धिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ हितो०४-९० । सत्संगतिमाश्रित्य खला अपि साधुत्वं भजन्ते, सदोषा अपि निर्दोषताम् आपद्यन्ते, मूढा अपि गुणित्वं प्रपद्यन्ते, बालिशा अपि विद्यार्जनप्रवणाः संलक्ष्यन्ते । नहि दुर्जनसंगः सत्सु दोषान् आविष्करोति, तेषां सद्गुणांश्च तिरोधापयति । प्रसूनगन्धं मद् धारयति, न तु मृद्गन्धं कुसुमानि प्रतिपद्यन्ते । उक्तं च

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350