Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
सत्संगतिः कथय किं न करोति पुंसाम्
३१३ सत्सङ्गाद् भवति हि साधुता खलानां • साधूनां नहि खलसंगमात् खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ चाणक्यशतक १२-७
सत्संगतिः कथय किं न करोति पुंसाम्-नहि सत्संगतेर्महत्त्वं वर्णयितुं शक्यम् । सत्संगतिः सकलमपि दुःसाध्यं साध्यं विदधाति । निखिलमभीष्टं पूरयति, भावोन्नतिम् आदधाति, मौढ्यं निराकरोति, वाचि सत्यं सिञ्चति, मानोन्नतिं कुरुते, पापान्यपहन्ति, मनः परिष्करोति, यशः सूते । कि नास्ति यन्न सत्संगत्या साध्यम् । सत्यं सत्संगतिः कामदुधैव । उक्तं च
जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नति दिशति पापमपाकरोति । चेतः प्रसादयति दिक्ष तनोति कीति सत्संगतिः कथय किं न करोति पुंसाम् ॥ नीतिशतक २३
उपसंहारः-ऐतिह्येऽप्यवलोक्यते यत् सत्संगतिमाश्रित्य निर्गुणा गुणिनः, अधार्मिका धार्मिकाः, अशिक्षिताः शिक्षिताः, दुराचाराश्च सदाचारा अभूवन् । श्रीरामचन्द्र-संपर्कम् अवाप्य विभीषणो हनुमान् सुग्रीवश्च महिमानं लेभिरे, रामकृष्णपरमहंस-संगतिमासाद्य स्वामि-विवेकानन्दः, स्वामिविरजानन्दसंगतिम् अवाप्य महर्षिर्दयानन्दश्च गुणगौरवं दधुः ।।
महता पुण्येनैव सतां संगोऽवाप्यते। सतां संगो हि भेजषवत् सर्वदोषनिवारकः । संतां संगो निखिलम् अभीष्टं साधयति । सतां संगः सर्वविधं सौभाग्यं मङ्गलं क्षेमं चावहति । सतां संगः किं न चिकीर्षितम् ईप्सितं च साधयति । अत एवोच्यते
‘सतां हि संगः सकलं प्रसूयते' ।

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350