Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 327
________________ ३१० संस्कृतनिबन्धशतकम् विद्ययैव तत्त्वज्ञानाधिगमाद् ब्रह्मरूपस्य अमृतत्वस्य च साक्षात्कारेण अमृतत्वावाप्तिब्रह्मज्ञानम् अमरत्वं च । एतदेवाभिप्रेत्य समर्थ्यते यत् __ विद्ययाऽमृतमश्नुते । विद्यया विन्दतेऽमृतम् । नहि ज्ञानेन सदृशं पवित्रमिह विद्यते-सर्वदोषविनाशनाद् ज्ञानाग्निसंदीपनाद् ब्रह्मतत्त्वसाधनात् पावनत्वसंचाराद् ज्ञानमेव मानवीयं कलेवरं देवत्वं प्रापयति । नहि लोके ज्ञानात् प्रशस्यतमं पावनतमम् उत्कृष्टं वा किंचित् । पावनत्व-गुणप्रकर्षादेव ज्ञानस्य महिमानम् उदीरयताऽभिधीयते श्रीकृष्णेन नहि ज्ञानेन सदृशं पवित्रमिह विद्यते । गीता ४-३८ । पावनत्व-गुणोत्कर्षादेव विद्या देववत् पूज्यते आद्रियते च । सा देववत् पन्थानं प्रथयति, सतिं सारयति, मार्ग मार्गयते, धियं द्योतयति, मेधां समेधयति, प्रज्ञां प्रज्वालयति, बुद्धि प्रबोधयति, चेतश्चेतयते, स्वान्तं संस्कुरुते, वैभवम् आविर्भावयति च । अत एवेयम्-परं दैवतम्, परा देवता वाऽभिधीयते । विद्या परं दैवतम् । विद्या परा देवता। यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्-शास्त्रं ज्ञानोदयसाधनम् । शास्त्रं बुद्धि विकासयति, मेधां प्ररोचयति, धियं समिन्धे, प्रज्ञां प्रज्वलयति च । यदि शास्त्राध्येतरि न स्याद् बुद्धरुत्कर्षः प्रज्ञाविर्भावश्च, तर्हि शास्त्रेण तत्र किं शक्यं कर्तम् । तत्रानग्नाविव शुष्कैधःपातनमेव संपत्स्यते । अतो विद्यया सममेव बुद्धरपि समन्वयोऽनिवार्यः । बुद्धिमन्तरेण विद्या मौढयमेवाविष्करोति । बुद्धिपूर्वैव विद्या सर्व विषयसारग्राहिका समस्तसुखसंनिधात्री च । अत एवोच्यते-'विद्याया बुद्धिरुत्तमा'। प्रज्ञाहीनोऽन्ध इवास्ते । शास्त्रं तस्य न किंचिद् उपकतु प्रभवति । अतएवोच्यते-यस्य नास्ति० । महर्षिणा पतञ्जलिनापि महाभाष्ये एतदेव समर्थ्यते । यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कहिचित् ॥ महा० आ० १ .

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350