Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 325
________________ ५६. विद्याधनं सर्वधनप्रधानम् ( १. विद्वान् सर्वत्र पूज्यते; २. ऋते ज्ञानान्न मुक्तिः; ३. विद्याविहीनः पशुः; ४. विद्या परं दैवतम्; ५. किं किं न साधयति कल्पलतेव विद्या; ६. नहि ज्ञानेन सदृशं पवित्रमिह विद्यते; ७. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्; ८. सा विद्या या विमुक्तये।) का नाम विद्या ?-ज्ञानार्थकाद् विद्धातोविद्याशब्द: सिध्यति । कस्यचिदपि वस्तुनो विषयस्य वा सम्यग् ज्ञानं विद्येत्यभिधीयते । वेद-शास्त्र-विज्ञानादीनां साध्वनुशीलनं तत्त्वार्थज्ञानं च विद्येति स्वीक्रियते । उपनिषदाम् अनुसारं द्वे विद्य-परा अपरा च । तत्र अपरा--वेदा वेदाङ्गानि च । परा-यया तद् अक्षरम् अधिगम्यते। द्वे विद्ये वेदितव्ये........."परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरम् अधिगम्यते । मुण्डकोप० १-१-४, ५ यया लौकिकं ज्ञानं जायते, सा अपरा विद्या। यया च अक्षर-ब्रह्मविषयकं ज्ञानं जायते, सा परा विद्या। द्वे अपि विद्याशब्दवाच्ये, ज्ञातव्ये च वर्तेते। विद्याधनं सर्वधनप्रधानम्--विद्यैव तद् धनम्, यया सर्वोऽपि मानवीयो मनोरथोऽभिलाषो वा पूर्यते । विद्ययैव कर्तव्याकर्तव्यज्ञानम्, धर्माधर्म-परिज्ञानम्, पुण्यापुण्यविवेकः लाभालाभावबोधश्च । विद्ययैव लक्ष्यनिर्धारणम्, लौकिकविषयावाप्तिः, भौतिक-सुख-साधनम्, भूमि-गृह-विभवादीनाम् अवाप्तिश्च । अपरं चैतस्य वैशिष्ट्यं यदेतद् धनं न भ्रातृभाज्यम्, न नृपहार्यम्, न च भारकारि वर्तते । यथा यथा दीयते विभज्यते च तथा तथैव वृद्धिम् अश्नुते । उक्तं च न चोरहार्य न च राजहार्य न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ सुभा० पृ० ३० वसुमतीपतिना न सरस्वती बलवता रिपुणापि न नीयते। समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ सुभा० पृ० ३० विद्याविहीनः पशुः-लोके विद्यैव तद् ज्योतिः यद् मानवे ज्ञानज्योतिज्वलयति, अविद्यान्धतमसं व्यपोहति, दुर्गुणगणं वारयति, सद्गुणततिं संचारयति, कीति प्रथयति, गौरवं विकासयति, यशो वितनोति, भूभृत्सु च आदरम् आवहति । अत एवोच्यते

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350