Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 323
________________ ३०६ संस्कृत निबन्धशतकम् मानसं कार्याकार्यं-विवेक दक्षं हेयोपादेय ज्ञान - विशिष्टं सक्रियं सचेष्टं सद्गुण-गणविभूषितं स्व-पर-कृत्य-साधकं सदसद्विवेक - विभास्वरं च भासते । चिन्ता मूलमनर्थानाम्, आधि-व्याधिनिदानम्, मनसो दूषकम्, स्वान्तस्य संतापकम्, ज्ञान-विज्ञान - नाशकं च कारणम् इत्यवगत्य न केवलं हेयैवैषा, अपि तु सर्वथा हृदयाद् निःसार्या मनसोऽपाकरणीया, स्वान्ताच्च संहरणीया । चिन्ता दहति सजीवम् -- दहनक्रियायां चिन्ता चितामप्यतिशेते । चिता निर्जीवं दहति चिन्ता तु सजीवं भस्मसात् कुरुते । उक्तं च- 'चिन्तायाश्च चितायाश्च चिन्ता चैव गरीयसी । चिता दहति निर्जीवं चिन्ता चैव सजीवकम् ।।' बिन्दुमात्राधिक्यात् चितापेक्षयेयं दाहशक्ती बहुगुणा । 'बिन्दुनैवाधिका चिन्ता, चिताऽत्यल्पा हि भूतले ।' प्रविष्टमात्रैवैषा ससारं निःसारम्, सचेतनम् अचेतनम्, सबलं निर्बलम्, सशक्तम् अशक्तम्, मनस्विनं च हीनवृत्ति विदधाति । अतो यदैवैषा पापमूर्तिः पावनाद् मनोमन्दिराद् अस्पृश्येव, कुलटेव, 'कुलकलङ्किनीव, दुश्चरित्रेव, राक्षसीव बलाद् निष्कास्यते, अपसायंते, निराक्रियते, तदेव शोभनं पवित्रं च मुहूर्तम् । चिन्तानिरोधोपायाः - मानवलोकसंही चिन्ता -पिशाचीं समुत्पादयित्रा भगवता जगत्कृता किं समुत्पादितम् अस्याः पिशाच्या निरोधकं संहारकं वा किमपि रसायनम् ? अथवा किमेषा जीवनेन सममेव विनाशम् उपैष्यति ? भारतीयैः पाश्चात्त्यैश्च मनीषिभिः भिषग्वरैश्च चिन्ताप्रतीकारोपायाश्चिन्तिताः प्रचारिताश्च । स्वावलम्बनम्-स्वावलम्बनं तावदाद्यं चिन्ता-प्रतीकार-क्षमं रसायनम् । आश्रिते स्वावलम्बने, गृहीतेऽध्यवसाये, अवलम्बिते चात्मबले, समुपासिते च सदुद्योगे विषमाऽपि चिन्ता नीहारराजिवि, आकाशकुसुममिव, इन्द्रजालमिव, धूमावरणमिव, तुषारकणमिव पश्यत एवापक्षीयते, विनश्यति च । धैर्याश्रयणम् - धैर्यावष्टम्भस्तावद् द्वितीयं रसायनम् । धैर्यं हि निर्धनानां धनम्, निर्बलानां बलम्, अशक्तानां शक्तिः, चिन्ताकुलानां च चिन्ता-हरणक्षमं तन्त्रम् । धैर्याश्रयणं सुख-शान्ति - सदनम्, धैर्यावसादश्च विपदां निदानम् । सांयात्रिकोऽगाध-जलनिधि-मध्यगोऽपि स्वपोतभङ्गे न धैर्यं जहाति, अपि तु धैर्यम् आस्थाय समुद्रं तितीर्षति । एवं धैर्यस्याश्रयेण नरो महाविपदो विभुच्यते । सतत कार्य - व्यापृतित्वम् — कार्यव्यापृतिस्तृतीयं रसायनम् । कार्याव - सक्तमनसः कार्यान्तरापेक्षाभावात् स्वाभीष्ट - कर्मण्येव चेतो व्याप्रियते । 'युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' । मनश्चैकस्मिन् समये कार्यद्वयं साधयितुम् अक्षमम् । कार्यान्तरे नियोजितं मनः चिन्तायाश्चिन्तनेऽसमर्थम् । संति तु घोरे विपत्पाते किंचित् स्वाभीष्टं कार्यम्, उपनिषदादि-ग्रन्थानाम् अध्ययनम्, गीतायाः

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350