Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
चिन्ताविषघ्नं रसायनम्
३०७ पठनं वा, मनोज्ञं शिल्पम्, हृद्यं व्यवसायान्तरं वाऽऽश्रयणीयम्, येन चिन्तार्थ समयाभावः संपद्येत ।
चिन्ताया हेयत्वज्ञानम्-चिन्ताया हेयत्वावबोधस्तुरीयं रसायनम् । सम्यग् अवगते चिन्ताया दुःखावसायित्वे, तदवरोध एव श्रेयान् । चिन्तया न किंचित् साध्यते । चिन्ता न सुख-साधयित्री, न च दुःखनिवारयित्री इति चेतसि कृत्वा न चिन्तायै स्थानलेशोऽपि देयः। सुकुमारावयवानां कुसुम-सदृशकोमल-हृदयानां कामिनीनां कृते कस्याश्चित् चित्रपटाभिनेत्र्या वचनं मधुरतरं प्रतिभाति यद्-चिन्ता मम लावण्यापही, रूपाजीविका चाहम्, स्ववृत्तिविरोधिस्वात्, रूपापकर्षकत्वात्, लावण्य-संहारकत्वात्, अवसादमयत्वाच्च, नाहं क्षणमात्रमपि रूपापहारिणी समाश्रये चिन्ताम् । रूप-समृद्धयै, सौन्दर्य-वृद्धय, स्वास्थ्य-समुन्नत्यै, तेजःसमुदयाय, ज्ञानोदयाय च चिन्ता स्वमनोमन्दिराद् अस्पृश्येवापसारणीया महिलाभिनिवैश्च।
अन्यानि रसायनानि-अन्यान्यपि कानिचिद् रसायनानि चिन्ताविषघ्नानि अनुभूतप्रायाणि निर्दिष्टानि मनोविज्ञानविद्भिर्विपश्चिद्भिः। तद् यथा --'गतं न शोचामि, कृतं न मन्ये' । अतीतस्य चिन्ता परिहेया। वर्तमानं च कार्य सुविचार्यावहितेन चेतसाऽनुष्ठेयम् । 'कर्मफलस्यानिवार्यत्वम्'-प्राक्कृतकर्मणां यथाकालं विपाको जायते, सुखात्मकं दुःखात्मकं च । सुखात्मिका दुःखात्मिका वा स्यात् परिणतिः, उभयमपि साह्लादं सोत्साहं च स्वीकार्यम् । 'चिन्ताया बौद्धिकं समाधानम्'--तद्यथा, कश्चिन्ताया विषयः ? किमस्य निदानम् ? कोऽस्य प्रतीकारोपायः ? सति तु संभवे तत्प्रतीकारोपाये, तदर्थम् अध्यवसाय आस्थेयः । असंभवे च तत्प्रतीकारोपाये धैर्यम् अवलम्ब्य सोत्साह दुःखमपि सोढव्यम्, इत्येवं परीक्षिता चिन्ता सद्य एवोपशाम्यति । 'कार्यातिरेकव्यापृतिरपि अनर्थानां मूलम्' इत्यवगत्य एकस्मिन् समये एकस्यैव कार्यस्यानुष्ठानं हितकरम् । कार्यातिरेको मतिविभ्रमस्य दुःखावाप्तेश्च कारणम् इति सर्वदाऽवधेयम् ।
अन्ये प्रतीकारोपायाः--समयस्य सदुपयोगोऽपि चिन्तानिवारकं साधनम् अस्ति । समयः सम्यग् उपयुक्तश्चेत्, अहोरात्रं साधु विभाजितं चेत्, निखिलकार्यकलापाथं समयनिर्धारणं स्याच्चेत्, तहि न चिन्तावसर उपपद्यते । आत्मविश्वासः, दृढनिश्चयः, इच्छाशक्तेः प्राबल्यम्, पवित्रविचाराणाम् आश्रयणम्, सद्भावाविर्भावः, हृदय-दौर्बल्यस्य परित्यागश्च चिन्ताहरणानि रसायनानि । महात्मनां क्रान्तिकारिणां च चरितानां पठनं श्रवणं च विषयेऽस्मिन् महदुपकारि । चिन्तावारणार्थं चैवं मनसि चिन्तनीयं ध्येयं च
चिन्तेऽपेहि महापापे ! व्याधिमूले ! मनोव्यथे ! • गच्छारण्यं महाशैलं मुञ्च मां शुचिमानसम् ॥ (कपिलस्य ) .

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350