Book Title: Sanskrut Nibandh Shatakam
Author(s): Kapildev Dvivedi
Publisher: Vishvavidyalay Prakashan
View full book text
________________
९४. चिन्ताविषघ्नं रसायनम्
(नास्ति चिन्तासमो व्याधिः ) चिन्तायाः स्वरूपम्-समग्रसुखनिधानेन भगवता जगदीशेन सृष्टि विदधता न जाने केन हेतुना मानवानां दुःखमूला चिन्ता-नामेयं काचिदपूर्वा पिचाशी समुत्पादिता। सेयं नराणां रक्तपायिनी, आधि-व्याधि-मूला, शरीरसंतापयित्री, मनोदाहिका, काचिद् राक्षसी । या न केवलं रुधिरपानेनैव तृप्तिम् अधिगच्छति, अपि तु अहर्निशं यावज्जीवं च विविधरूपाणि गृहीत्वा छायेव मानवम् अनुसरति । केचन सुखार्थिनः सुखलिप्सया, धनार्थिनो धनकाम्यया, क्षुधापीडिता धान्यार्थम्, ऋणग्रस्ता आनण्यार्थम्, अपुत्राः पुत्रार्थम्, अशिक्षिताः शिक्षार्थम्, गतविभवाः पुनर्विभवलाभार्थम्, अनिष्टग्रस्ता इष्टप्राप्त्यै च चिन्ताकुला दृश्यन्ते । येन केनापि प्रकारेणैकदा कृतवसतिरियं चेतःसू बलाद निःसार्यमाणापि, तिरस्कृतापि, ताड्यमानापि, पीड्यमानापि, बहुशो निर्भत्सितापि स्वाश्रयं नोज्झति । चिन्ता चितयैव समं शाम्यति । सेयं साम्यवाद-प्रतिष्ठापिकेव निर्धनं सधनं च, निर्गणं सगुणं च, अविद्याग्रस्तं विद्या-वैभव-भास्वरं च, कुलीनम अकुलीनं च, अन्त्यजम अग्रजन्मानं च, देशस्थं विदेशस्थं च, कलाविदं विज्ञान-भानु-प्रद्योतितान्तःकरणं च समदृष्टया निरीक्षमाणा रात्रिन्दिवं व्याकुलयति उत्पीडयति च । शुष्कं वृक्षं वह्निरिव, सच्छिद्रं पोतं सलिलमिव, पत्रसंचयं दवाग्निरिव, तृणाच्छन्नं गृहं मातरिश्वेव, निराशा-व्याकुल-मानसं मानवं विनाशयति चिन्तासमुत्थो जातवेदाः।
चिन्ताया मूलमभावः-अभावश्चिन्ताया मूलम् । इष्टप्राप्ति-द्रविण-सुखाद्यभावोऽस्या मूलम् । यत्रेवाभावानुभवस्तत्रैव चिन्तायाः सदनम् । सैषा आश्रयाशो वह्निरिव यमेवाश्रयते तमेव भस्मसाद् विदधाति । अतः सुकरमेतद् वक्तुम्'नास्ति चिन्तासमो व्याधिः, नास्ति चिन्तासमो रिपुः । नास्ति चिन्तासमं दुःखं नास्ति चिन्तासमं भयम् ।' 'चिन्ता जरा मनुष्याणाम्'। नीरोगमपि प्रसन्नमानसमपि मानवं चिन्ताऽन्तः प्रविश्य व्याधिग्रस्तं निष्प्रभं शोकसन्तप्तं च विदधाति । सेयं न केवलं शोक-दुःख-लानि-ईर्ष्या-रूक्षता-असहिष्णुता-नैराश्यक्रोधादीनां मानसिक-दुःखानामेव मूलम्, अपि तु हृद्रोग-रक्तचाप-मधुमेहअनिद्रा - शिरोवेदना-पक्षाघात - मलावरोधादीनां व्याधीनामपि मुख्यं कारणम् । सूक्तं केनापि-'स्वच्छन्दं चरतो नरस्य हृदये चिन्ताज्वरो निर्मितः ।'
चिन्ता मूलमनर्थानाम-चिन्तया नरो निश्चेष्टो जडश्च संजायते । यत्र यत्रैव जडत्वं निश्चेष्टता वा, तत्र तत्र दुःखावाप्तिः । प्रवहमानं सलिलं निर्दोषं निर्मलं पावनं मधुरं च भवति, तथैव चिन्ताविरहितं सोत्साहं प्रगतिशीलं च
२०

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350